This page has not been fully proofread.

रासमसामान्ययोरपि कार्यकारणभावापत्तिः । तद्वारणाय असति बाधके
इत्युक्तम् । तथा च तत्रान्यथासिद्धत्वरूपबाधकसलेन न तयोः कार्य-
कारणभावः इति । कारणं तावत् द्विविधम् । मुख्यम् अमुख्यं च ।
तत्र घटादिकं प्रति मृदादिकं कपालादिकं वा मुख्यम् । यथा वा
माणप्रत्यक्ष इन्द्रियम् अनुमितौ च परामर्श: इत्यादि मुख्यं कारणं
भवति । मुख्यमिक्षं त्वमुख्यं कारणम् । तच सहकारिकारणमुच्यते ।
यथा अभावप्रत्यक्ष योग्यानुपलब्धिः अनुमितौ च सहचारज्ञानं कारणम्
अमुख्यं भवति । मुख्यमपि न्यायमते त्रिविधम् । समवाय असमवायि
निमित्तं चेति । तत्र घटादिकं प्रति कपालादिकं समवायिकारणम् ।
कपालद्वयसंयोगादि असमवायिकारणम् । दण्डादयो निमित्तकारणानि
इति । अत्रेदं बोभ्यम् । एतत् त्रिविधं कारणम् भावकार्याणामेबास्ति ।
न त्वभावस्य । ध्वंसस्य तु निमित्तकारणमात्रम् । ध्वंसस्य समवायाभावेन
समवाय्यसमदायिनोरभावात् इति ( प्र० प्र० १ पृ० २ ) । इदं च
कारणत्रयम् भावकार्यस्यैव । अभावस्य तु निमित्तमात्रम् इति तर्कदीपि-
कायामप्युक्तम् । अत्रायं नियमः । समवायिकारणं द्रव्यमेव भवति ।
असमबायिकारणं तु गुणः कर्म च भवति । असमवायिकारणं गुड़ा-
कर्मातिरिक्तं न भवतीत्यर्थः (३० १०/२/१ - ६ ) (मु० १ पृ० ५६ ) ।
इदं च बोध्यम् । समवायिकारणासमत्रायिकारणे असाधारणे एव
कारणे भवतः । निमित्तकारणं तु साधारणासाधारणमेदेन द्विविधम
प्यस्ति । तत्र साधारणनिमित्तकारणानि चाष्टविधानि । ईश्वरः तज्ज्ञा-
नेच्छाकृतयः दिक्कालौ अदृष्टम् (धर्माधर्मो) प्रागभावश्चेति । प्रतिबन्धक-
संसर्गामावस्तु कार्यमात्रं प्रति साधारणं निमित्तकारणमेव । स च
प्राचीननैयायिकानां मते प्रागभावप्रध्वंसमव्यन्ताभावएतत्रयम् । मणि-
कारादीनां नव्यनैयायिकानां मते तु अव्यन्ताभाव एव इति विवेकः
( दि० १ मङ्ग० पृ० ११) । मायावादिवेदान्तिनस्तु अभावस्य
कारणत्वं नेच्छन्ति । असाधारणनिमित्तकारणानि तु कार्यमेदेनानेक-
विधानि । अमुख्य कारणं तु असाधारणं निमित्तमेव अनेकथा चेति