2023-02-20 00:54:46 by ambuda-bot
This page has not been fully proofread.
न्यायकोषः ।
( त० मा० पृ० २ ) ( त० सं० ) । यथा वा नवीनानां मणिकारादीनां
मते प्रतिबन्धकसंसर्गाभावोपि कार्यमात्रं प्रति कारणम् । स च प्रति-
बन्धकात्यन्ताभावः । अनन्यथासिद्धेत्यस्यार्थश्च अन्यथासिद्धभिनं अन्यथा-
सिद्धिशून्यम् यत् कार्यनियतपूर्ववृत्ति तदिति। अत्र व्यापारेण व्यापारिणो
नान्यथासिद्धिः इति नियमोङ्गीकर्तव्यः । तेन कुठारेण वृक्षं छिनतीत्यादौ
कुठारादीनां परंपरया छेदनक्रियाजनककुठारदारुसंयोगजनकविधया
कारणत्वेपि नान्यथासिद्धिः इति । कार्यनियतेत्यस्यार्थश्च कार्यानियता
अवश्यंभाविनी पूर्ववृत्तिः पूर्वक्षणवृत्तिः यस्य तत्तथा इति (सि० च० १
पृ० ५० ) । अत्र घटं प्रति रासभादेः कारणत्वनिरासाय नियतपदम् ।
यद्यपि अनियतरासभादेस्तृतीयान्यथासिद्धत्वेन (तर्कदीपिकायुक्ततृतीया-
न्यथासिद्धलक्षणाक्रान्तत्वेन ) कारणलक्षणघटकेनैव अनन्यथासिद्धेति
विशेषणेन रासभादेः कारणत्वनिरासानियतपदं व्यर्थमेव तथापि घट-
सामान्यं प्रति रासमसामान्यस्य कारणत्वनिरासाय नियतपदमाव-
श्यकम् । यदि नियतपदं लक्षणे न निबेश्यते तदा तत्र पूर्वोक्त
तृतीयान्यथासिद्धेरसंभवेनातिव्याप्तिः स्यात् इति । नियतपूर्ववृत्तित्वं चाव्य-
वहितपूर्वकालावच्छेदेन कार्यदेशे सत्वम् । न चेदं रासमसामान्येति
अतो नातिव्याप्तिः ( त० कौ० ११० ८) ( नील० १ पृ० १६) ।
अत्र प्राभाकरास्तु कारणमात्रं कार्यसहभावनिरूपकमेव सत् कार्यकारि
इति प्रतिबन्धकाभावोपि कार्यसहभावेन कारणम् इति च बदन्ति ।
कार्यसहभावनिरूपकत्वं चात्र कार्योत्पत्तिक्षणावच्छिन्ना याधिकरणता
तन्निरूपकत्वम् । खोत्पत्ति स्वाव्यवहितपूर्वस्व एतदन्यतरसंबन्धेन यदा
कार्य तदा प्रतिबन्धकाभावादिः इति प्रत्यासत्या कारणम् इति (मू०
म० १ ) । यथा दाहोत्पत्तिकाले मण्याथभावः । [प] कार्योत्पादकम् ।
अत्रेयं व्याप्तिरनुसंधेया यद्विशेषयोः कार्यकारणभावः असति बाधके
तत्सामान्ययोरपि इति । यथा घटविशेषदण्डविशेषयोः कार्यकारण-
मावे घटसामान्यदण्डसामान्ययोरपि कार्यकारणभावो निराबाध एक
इति । अत्र घटविशेषं प्रति देवादागतरासभस्य कारथत्वे घटसामान्य-
२९ म्या०
को•