This page has not been fully proofread.

न्यायकोशः ।
 
:
 
विवक्षणीयम् । तेन अवयवावयविनोरेकत्वयोः संख्यास्वेनापि साजात्यम-
भ्युपगम्य तादृशैकत्वाभ्यां जनितेवयवावयविद्वित्वादौ नातिव्याप्तिः
( दि० गु० प० १९४) । कारणगुणोत्पन्नगुणाश्च अपाकजा रूप-
रसगन्धानुष्णस्पर्शा: अपाकजं द्रवत्वम् स्नेहवेगगुरुत्वएकत्वानि एक-
पृथक्त्वम् परिमाणम् स्थितिस्थापकश्चेति ( भा० प० गु० को०
९६ - ९७ ) । अत्र पृथिवीमात्रवृत्तीनां केषांचित् पाकजरूपरसगन्ध-
स्पर्शानाम् कारणगुणपूर्वकत्वाभावात् अपाकजा इत्युक्तम् (मु० गु०
पृ० १९४ ) । वेगोत्र कर्माजन्यो वेगजन्यः प्रायः ( प० मा० )।
करणगुणोत्पन्नत्वं च [ क ] स्वाश्रयसमवायिसमवेतगुणजन्यत्वम् ( दि०
गु० पृ० १९४ ) । अत्र स्वम् अवयविजलस्य रूपादि । तस्याश्रयः
समवाय वा समवायेन संबन्धेनाश्रयः अवयविभूतं जलम् । तस्य समवायि
अवयवभूतं जलम् । तत्र समवेतो गुणः अवयवभूतजलवृत्ती रूपादिः ।
तेन जन्यः तस्य भाव इति विप्रहादिकं ज्ञेयम् । [ ख ] स्वसमवायिसम-
वायिसमवेतगुणजन्यत्वम् ( ल० व० पृ० ३६ ) । यथा कार्यजलस-
मवेतरूपस्य कारणगुणोत्पन्नत्वमेव । अत्र तादृशगुणजन्यत्वं च तादृशगुण-
निष्ठासमवायिकारणतानिरूपितकार्यताशालित्वम् ( ल०व० १० ३६ ) ।
 
कारणम् – १ [ क ] कारणं हि तद्भवति यस्मिन् सति यद्भवति यस्मि-
श्वासति यन्न भवति ( न्या० वा० १ पृ० २४) । अत्रेदं बोध्यम् ।
कारणत्वं द्विविधम् । वैदिकम् लौकिकं च । तत्र वैदिकम् अन्वयमात्रा-
वगम्यम् । लौकिकं तु अन्वयव्यतिरेकोभयगम्यम् इति ( स० व०
परि० २ लो० ५० पृ० ४० ) । पुनरपि न्यायमते कारणत्वं
द्विविधम् । फलोपहितत्वम् स्वरूपयोग्यत्वं चेति । तत्राद्यं यथा अनुमितिं
प्रति परामर्शस्य कारणत्वम् । फलोपहितत्वं च उपधायकत्वशब्देनापि
व्यवह्वियते । द्वितीयं यथा अरण्यस्पदण्डादिसाधारणम् जनकतावच्छेदक-
लक्षणं दण्डत्वादिस्वरूपं घटकारणत्वम् । [ ख ] यस्य कार्यात्पूर्वमावो
नियतोनन्यथासिद्धश्च तत् (त० मा० पृ० २ ) । [ग] अनन्य-
थासिद्धकार्यनियतपूर्ववृत्ति । यथा तन्तुबेमादिकं पटस्य कारणम्