This page has not been fully proofread.

न्यायकोशः ।
 
सुब् भवेत् ॥ तथा हि । प्रथमादीनां सप्तानां विभक्तीनामेकत्वादयोर्था
न धात्वर्ये प्रकारीभूय भासन्ते । किंतु प्रकृत्यर्थे । पाक इत्यादावपि
सुबर्थसंख्या न धात्वर्थे प्रकार: । किंतु पचनादिस्वरूपे नामार्थे इति ।
अथवा [ग] समासनिविष्टस्य धातोरर्थे इति वक्तव्यम् । न हि
प्रामगत इत्यादौ धात्वर्थे कर्मत्वादिरिवैकत्वादिरपि सुबर्थः प्रकारः ।
अत एव प्रासादात्प्रेक्षत इत्यादौ ल्यबर्थस्य धात्वर्थे प्रकारत्वेपि तदर्थक-
पञ्चय नाव्याप्तिः ( श० प्र० श्लो० ९२ पृ० ११४ ) । अत्रेदमव-
घेयम् । कारकविभक्तिभिन्न विभक्त्यर्थस्य क्रियायामनन्वयः इति न
नियमः । तथा हि मणिकारमते तस्माज्जानाति इत्यादौ ज्ञानादिरूप -
धात्वर्ये हेतुविभत्त्यर्थस्यान्वयो दृष्टः । तस्मात् स्थीयते इत्यादौ च
सर्वमत एव धात्वर्थस्थित्यादौ हेतुविभक्त्यर्थस्यान्वगो दृष्टः । गुरुविप्रत-
पस्विदुर्गतानां प्रतिकुर्वीत भिषक् स्वभेषजैः इत्यादौ षष्ठ्यर्थसंबन्धस्यापि
धात्वर्थेन्वयो दृष्टश्च इति न तादृशनियमोङ्गीकर्तव्यः ( ग० व्यु० का० २
ख० २ पृ० ५६ ) । अत्र रोगे इति पदमध्याहार्य तदर्थे षष्ठ्यर्थस्या-
न्वयः कार्यः इत्यपि केचिद्वदन्ति इति जागुक्तमेव ।
 
२२३
 
4
 
कारणगुणपूर्वकत्वम् – कारणगुणेन कार्ये ये गुणा उत्पद्यन्ते ते कारण-
गुणपूर्वका रूपादयो वक्ष्यन्ते ( मु० गु० पृ० १९३ ) । अग्निमशब्दे
दृश्यम् ।
 
कारणगुणोत्पन्न गुणत्वम् ––स्वाश्रय समवायिमात्रसमवेत स्वसजातीयगुणज-
न्यवृत्तिः पृथक्त्वसंख्यात्वातिरिक्ता भावनादृत्यन्या च या जाति:
तादृशजातिमत्त्वे सत्यपाकजत्वम् ( दि० गु० १० १९४ ) । भवति
हि घटादीनां रूपादिकं स्वाश्रयघढादिसमवायिकपालादिरूपादिमात्रा-
समवायिकारणकम् (प० मा० ) । स्वम् घटादीनां रूपादिकम् । तस्या-
श्रयः घटादिः । तस्य समवायि कपालम् । तन्मात्रे तस्मिन्नेव समवेतः
स्वसजातीयो गुणः कपालादिगतरूपादिः । तेन जन्यम् घटादिगतम-
पाकजं रूपादि । तत्र वर्तमाना जातिः अपाकजरूपत्वादिः । तद्वत्त्वे सति
इत्यर्थः । स्वसजातीयगुणेल्यत्र साजायं च गुणत्वव्याप्यव्याप्यजामा