2023-02-20 00:54:44 by ambuda-bot
This page has not been fully proofread.
२२२
न्यायकोशः ।
पच्यते इत्यादौ तिङा पाचकः पच्यमान इत्यादौ च कृता कर्तृत्वं कर्मत्वं च
धात्वर्थविशेष्यत्वेनानुभाव्यते । तथा पचनं काष्ठम् दानीयो द्विजः मीमो
गजः शयनं गृहमित्यादौ यथाक्रमं करणत्वादि धात्वर्थविशेष्यत्वेनानु-
भाव्यते । व्युत्पत्तिवैचित्र्येण पदार्येकदेशेपि पचति पच्यते इत्यादौ कर्तृत्वादौ
धात्वर्थस्य पाकादेरन्वयात् । विषवृक्षोपि संवर्ध्य स्वयं छेत्तुमसांप्रतम्
( कुमारसं० २।५५) सेवितुं सांप्रतं विज्ञैर्गुरु: परुषवागपि इत्यादौ तु
निपातेन कचित् कर्मस्व कारकस्योक्तत्वम् ( श० प्र० पृ० १०५) ।
अनुक्तं तु कारकं यथा रामेण हतो वालीत्यादौ रामनिष्ठं कर्तृत्वम् ।
ग्रामं गच्छ्रतीत्यादौ ग्रामनिष्ठं कर्मत्वम् । शरैः शातितपत्र इत्यादौ शरनिष्ठम्
काठैः पचतीत्यादौ च काष्ठनिष्ठं करणत्वम् । विप्राय ददातीत्यादौ विप्रनिष्ठं
संप्रदानत्वम् । एतादृशमनुक्तं कारकं भवति । [ञ] कर्तृत्वादिव्यपदेश-
कारिणी क्रिया कारकम् । यथा कारके ( १।४।२३) इति पाणिनि सूत्रे
भाष्यं यावद्भूयात्क्रियायामिति तावत्कारके इति । अधिकं तु ( श०
प्र० पृ० ११४ ) तत्र द्रष्टव्यम् ।
कारकविभक्तिः– ( सुप् ) धात्वर्थे प्रकारीभूतार्थबोधिका विभक्तिः ।
यथा ग्रामं गच्छति घटं पश्यति वृक्षात्पतति इत्यादी द्वितीयापञ्चम्यादिः
कारकविभक्तिरुच्यते । अत्र गच्छतिपश्यत्याद्यर्थे गमनदर्शनादौ द्विती-
याद्युपस्थापितकर्मत्वादि प्रकारीभूय भासत इति द्वितीयादिः कारक-
विभक्तिर्भवति इति विज्ञेयम् ( श० प्र० पृ० ७७) । कारकवि भक्तित्वं
च क्रियाजनकत्व समानाधिकरणकत्र दिपटान्यतमार्थत्वम् ( उ० श० शे०
पृ० १९३ ) ।
कारकार्था - वृत्त्या कारकस्य बोधिका सुब्विभक्तिः । यथा वृक्षात्पतति प्रामं
गच्छतीत्यादौ कारकार्था पञ्चम्यादिविभक्तिः ( श० प्र० पृ० ७७)।
कारकार्थान्यार्था-[क] वृत्या कारकार्थबोधकान्या सुन्त्रिभक्तिः
( श० प्र० श्लो० ६६ पृ० ७७ ) । यथा नीलो घट इत्यादौ मतविशेषे
अमेदार्थबोधिका एकत्वबोधिका वा प्रथमा विभक्तिः । [ख] यत्सुपो
यादृशार्थो न प्रकारीभूय भासते । धात्वर्थे यादृगर्थे सा कारकान्यार्थ-