This page has not been fully proofread.

न्यायकोशः ।
 
२२१
 
अत एव च चर्मणि द्वीपिनं इन्तीत्यादौ निमित्तादेरपि न कारकत्वम् इति ।
एता उपपदविभक्तयः न तु कारक विभक्तयः इति ( का ० व्या० पृ० १ )
( श० प्र० पृ० ७७-७८) । शाब्दिकास्तु [ छ ] क्रियाजनकत्वयोग्यता-
बुद्धिविषयत्वम् कारकत्वमित्याहुः ( ल० म० सुब० पृ० ७९)।
[ज ] क्रियाहेतुः ( म०प्र० पृ० ६ ) । यथा चैत्रो ग्रामं गच्छ-
तीत्यादौ चैत्रः कारकम् । अत्र क्रियां कुर्वद्धि कारकम् इति योगो
द्रष्टव्यः ( म० प्र० पृ० ५ ) । [झ ] कारकत्वं क्रियाजनकत्वम् ।
भाष्ये करोति क्रियां निर्वर्तयतीति व्युत्पत्तिप्रदर्शनात् । ब्राह्मणस्य पुत्रं
पन्थानं पृच्छतीत्यादौ ब्राह्मणस्य न कारकत्वम् । पुत्रेणान्यथासिद्ध्या
तस्वाभावात् । अत एवैषां क्रियायामेवान्वयः । क्रियाजनकमिति ज्ञाते
का सा क्रियेत्याकादयेन क्रियाया जनकाकाङ्क्षया च तत्रैवान्वयस्यौ-
चित्यात् । सर्वेषां च कारकाणां स्वस्वावान्तरक्रियाद्वारा प्रधानक्रिया-
निष्पादकत्व बोध्यम् । असंनिहितसंप्रदानस्यापि दातृबुद्धिस्थत्वावश्यक-
वेन स्वज्ञानस्य पूर्वकालत्वेनैव जनकत्वम् । एवं स्तोकं पचतीत्यादौ
फलस्यापि । घटं करोति स्मरतीत्यादौ द्धघटादे: पूर्वकालत्वेन स्मृत्यादि-
निष्पादकत्वं बोध्यम् ( श० शेख० का० पृ० १७४ ) । अत्र स्वज्ञान-
स्येत्यत्र स्वपदेनासंनिहितं संप्रदानं बोध्यम् । स्तोकं पचतीत्यत्र च
फलस्य क कर्मत्वं तदुच्यते । पच्धात्वर्थो विक्कियनुकूलो व्यापारः ।
तत्र विक्लित्तिरूपफलस्य व्यपदेशिवद्भावेन फलाश्रयत्वात्कर्मत्वम् । तद्वा-
चकौ च द्वौ पच्धातुः स्तोकपदं चेति । तत्र धातोः प्रातिपदिकसंज्ञाया
अभावात्तस्माद्वितीया न भवति । स्तोकशब्दस्य च तत्सत्त्वाद्वितीया
भवति । कारकं षड्डिधम् । अपादानत्वम् संप्रदानत्वम् करणत्वम्
अधिकरणत्वम् कर्मत्वम् कर्तृत्वम् इति ( श० प्र० पृ० ७८ ) । तदुक्तम्
कर्ता कर्म च करणं संप्रदानं तथैव च । अपादानाधिकरणमित्याहु: कार-
काणि षट् ।} इति । कारकं प्रकारान्तरेणापि द्विविधम् । उक्तम् अनुक्तं
चेति । तत्र धात्वर्थस्य विशेष्यतया तिङानुभाष्यत्वमेव कारकस्योक्तत्वम् ।
तद्विशेषणतया तदनुभाव्यत्वमेव चानुक्तत्वम् । तत्र उक्तं कारकं यथा पचति