This page has not been fully proofread.

२२०
 
न्यायकोशः ।
 
पश्यतीत्यादौ चैत्रेण पच्यते घटेन भूयत इत्यादौ
विभागादि: प्रकारी-
विभागादिकं प्रकृते
 
प्रामं गच्छति घटं
 
च पतप्रभृतिधात्वर्थे पतनादौ पञ्चम्याद्युपस्थ पितो
भूय भासत इति तत्तद्धातूपस्थापिततत्तक्रियायां
 
कारकम् । [ ख ] यादृशेन नामार्थेनावच्छिन्नस्य सुबर्थस्य यादृश-
धात्वर्येन्वयः : स तादृशषात्वर्थे कारकतया व्यपदिश्यते । तेन वृक्षात्पत-
तीत्यादौ वृक्षादेरपि पसनादिक्रियायामपादानत्वादिकारकव्यवहारः । [ग]
क्रियाप्रकारीभूतोर्थः कारकम् इति शाब्दिकाः स्मरन्ति ( श० प्र०
श्लो० ६६ पृ० ७७)। [ष ] कारकत्वं च क्रियान्वितविभक्तयर्था-
न्वितत्वम् । अस्ति च कर्मादौ क्रियान्वितसुविभक्त्यर्थान्वय इति
लक्षणसमन्वयः । चैत्रस्य तण्डुलं पचतीत्यादौ तु संबन्धिनि चैत्रादौ
षष्ठ्यर्थसंबन्धस्य तण्डुलादिनामार्थान्विततया क्रिया नन्वितत्वान्नातिव्याप्तिः ।
चैत्रस्य पचतीत्यादावपि तण्डुलादिपदाध्याहारेणैव बोधः । षछ्यर्थ संबन्धस्य
नामार्थेनैव तथा क्रियायाः कर्मत्वादिनैव साकाङ्क्षतया परस्पराकाङ्क्षा-
विरहात् । ओदनस्य पक्ता मैत्रस्य पाकः इत्यादौ कर्मत्वकर्तृत्वार्थिका षष्टी
कारकविभक्तिरेव । कर्तृकर्मणोः कृति (पा० सू० २/३/६५ ) इत्यनेन
तद्विधानात् । अत एव संबन्धस्य न कारकत्वम्। क्रियायोगाभावात्। []
क्रियाप्रकारीभूतोर्थ: कारकं तञ्च षड़िधम् । कर्तृकर्मादिमे देन शेषः संबन्ध
इष्यते ॥ इति शाब्दिकाः वदन्ति । अतं एव गुरुविप्रतपस्विदुर्गतानां
प्रतिकुर्वीत भिषक् स्वमेषजैः इत्यादौ सा लक्ष्मीरुपकुरुते यथा परेषाम्
इत्यादौ च रोगे विपत्तौ इत्यादिनाम्नोः यथाक्रमम् अभ्याहारेणैव
बोधः । अयं भावः । अत्र षष्ठ्यर्थसंबन्धस्याध्याहृतनामार्थेनैवान्वयः न तु
क्रियया इति नात्र कारकषष्ठी इति ( का० व्या० पृ० १ ) । अत्र
गदाधरभट्टाचार्यास्तु रोगे इति पदस्य नाध्याहारः कर्तव्यः । षष्ठ्यर्थ-
संबन्धस्य धात्वर्थेन्वयेपि नेयं कारकविभक्तिः किंतूपपदविभक्ति-
रेवेत्याः (ग० न्यु० का० २ ख० २ पृ० ५६ ) । यदि अभ्या-
हारमन्तरा क्रियायां षष्ट्यर्थसंबन्धान्वयः प्रामाणिकः तदा [ च ]
क्रियान्वित कर्तृत्वकर्मस्वादिषट्काम्यतमान्वयित्वम् कारकत्वं बोध्यम् ।