This page has not been fully proofread.

२१८
 
न्यायकोशः ।
 
२ अर्थापत्तिरिति मीमांसका वेदान्तिनधाः । ३ आरोप इति माया-
बादिनः । ४ रचना ५ विधानं चेति काव्यज्ञा आहुः ( वाच० ) ।
कल्याणम् – सत्यार्जवदयादानादीनि कल्याणानि ( सर्व० सं० पृ० १२४
रामा० ) ।
 

 
-
 
कल्याणी - चतुर्वर्षा कन्या । कुमारिका द्विवर्षा तु त्रिवर्षा च त्रिमूर्तिनी ।
चतुर्वर्षा तु कल्याणी पञ्चवर्षा तु रोहिणी ॥ षड्वर्षा तु भवेत्काली
सप्तवर्षा तु चण्डिका । अष्टवर्षा शांभवी तु दुर्गा तु नवमी स्मृता ॥
दशवर्षा सुभद्रेति नामभिः परिकीर्तिताः ( पु० चि० पृ० ६८) ।
कषाय: - कषति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो
माया लोभश्च ( सर्व० सं० पृ० ७४ आई० ) ।
 
काण: - [क] चक्षुःशून्यगोलकत्रत्त्वे सति सचक्षुर्गोलकवान् । यथा
अक्षणा काण इत्यादौ । अत्र गोलकार्थकाक्षिपदोत्तर तृतीयाया विकृतत्वं
वृत्तिमत्त्वं चार्थः । तत्राद्यं विकृतत्वं संबोध्यत्वमित्र प्रकृत्यर्थे विशेषण-
विधयान्वेति । चरमं वृत्तिमत्त्वं तु प्रकृत्यर्थनिरूपितं सत् काणत्वैकदेशे
चक्षुःशून्यत्वेन्वेति । तथा च विकृतगोलकवृत्तित्वविशिष्टं यच्चक्षुःशून्यत्वं
तद्वद्गोलकवान् सचक्षुष्कः इत्याकारस्तत्र बोध: ( श० प्र० पृ० १९८) ।
[ख] स्वाधिष्ठानवृत्तित्वसंबन्धेन चक्षुःशून्यो यश्चक्षुर्विनाशः तद्वान्
सचक्षुष्कः । अक्षणा काण इत्यादौ तादृशे विनाशे अक्षिपदस्यार्थस्य
गोलकस्य विकारप्रयुक्तत्वं तृतीयया बोध्यते । तथा च गोलकविकार-
प्रयुक्तस्य निरुक्तसंबन्धेन चक्षुःशून्यस्य चक्षुर्नाशस्याश्रयः सचक्षुष्कः
इत्याकारो बोध: ( श० प्र० पृ० ११८ ) । [ग] शाब्दिकास्तु
चक्षुर्नाशवान् सचक्षुष्कः । यथा अक्षणा काण इत्यादी इत्याहुः
( ल० म० सुब० पृ० १०० ) । अत्र येनाङ्गविकार: ( पा० सू०
२ । ३ । २० ) इत्यनेन तृतीया । विकारस्तु कनीनिकायपगम: अयथा-
संस्थानवत्वं वा । तथाच अक्षिपदार्थो गोलकम् । गोलकविकारप्रयुक्त-
चक्षुर्नाशवान् सचक्षुष्कः इति बोध: ( ल० म० सुब० १० १०० )।
[घ ] लेशतोपि दर्शनसामर्थ्यहीन: काण: (श० शे० का० पृ० १८९) ।