This page has not been fully proofread.

ग्रन्थकृषरितं नाम द्वितीय उपोद्धावः ।
 
मिथिलादेशे न्यवसत् । केचित्तु – 'अभिनवोदयनाचार्यो दक्षिण-
देशे वनदेशे वा जातः' इत्याहुः । उदयनाचार्यो न्यायाचार्यत्वेन प्रसिद्धः
A न्यायवार्तिकतात्पर्यस्य टीकारूपं न्यायवार्तिकतात्पर्य परियुद्धिनामानं
ग्रन्थम् B न्यायपरिशिष्टम् C प्रशस्तपादकृतभाष्यस्य व्याख्यानरूपं
किरणावलीनामानं ग्रन्थम् D आत्मतस्वविवेकम् ( बौद्धाधिकारम् ),
E न्यायकुसुमाञ्जलिं च कृतवान् इति ।
 
वर्षे
 
( ९ ) श्रीधराचार्यश्च विक्रमाब्दे ( १०४८) तथा ( शके ९१३ )
प्रशस्तपादाचार्यकृतभाष्यस्य व्याख्यानरूपं न्यायकन्दलीनामानं अन्यं
कृतवान् इति । श्रीधराचार्यस्य पिता बलदेवः । माता तु अव्वोका । नि-
वासस्तु गौडदेशापरपर्यायवङ्गदेशान्तर्गते गङ्गायाः पश्चिमे तटे 'राढ'
देशे भूरिश्रेष्ठिक इति प्रसिद्धे भूरिसृष्टिग्रामे 'राढापुरी' इत्यस्मिन् ।
 
( १०) महामहोपाध्यायो वल्लभाचार्यश्च न्यायलीलावतीनामानं प्रन्थं
कृतवान् इति ।
 
-
 
( ११ ) गङ्गेशोपाध्यायश्च इतः सप्तशत्या पूर्वे ( शके ११०० ) ए-
कादशशतके बङ्गदेशे आसीत् । केचित्तु – ( शके १०३० ) एतस्माद्-
र्षापूर्वमासीत्' इत्यङ्गीचक्रुः । गङ्गेशोपाध्यायस्तु सकलन्यायतर्कप्रन्थेभ्यः सा-
रमुद्धृत्य तत्त्वचिन्तामणि - नामानं नव्यपरिष्कारपरिष्कृतमुत्तमं ग्रन्थं विर-
चितवान् इति ।
 
▬▬▬▬
 
( १२ ) वर्धमानोपाध्यायश्च गङ्गेशोपाध्यायपुत्रः मिथिलादेशे दरभंगा-
ल्यादौ श्रीहर्षो वत्सराज उदयनश्च प्रतिपादितः सोऽन्य एव इति । अन्ये तु – 'श्रीहर्षा
त्पूर्व एव वाचस्पतिमिश्रः इति शंकरमिश्रग्रन्थादवगम्यते । अतो वाचस्पतिमिश्रात्पूर्व-
मेवोदयनाचार्य आसीत्' इत्याहुः । परे तु – 'वाचस्पतिमिश्रादनन्तरकालिक एवोदयना-
चार्यः इति तात्पर्यपरिशुद्धिभन्थेनात्मतत्त्वविवेकेन चावगम्यते' इति प्राहुः ।
 
१३ अत्रेदमनुमापकम् –लक्ष्मणसेननामा नृपतिर्वङ्गदेशे बभूव यस्य सभापण्डितो
हलायुधभट्ट आसीत् । तस्य राज्ञः प्रवृत्तिः ( शालि० शके १०३० ) वर्षे प्रादुरासीत् ।
तथाच 'ततोऽपि पूर्व गङ्गेशोपाध्याय आसीत्' इति निश्चीयते ।
 
१४ गणरत्नमहोदधिकारो गोविन्दसूरिशिष्यो वर्धमानस्तु जैन एव इत्यस्माद्वर्धमानो-
पाध्यायादन्यः इति ज्ञेयम् । गणरत्नमहोदधिर्विक्रमशकवर्षेषु ( ११९७ ) अतीतेषु
विरचितः इति ।