This page has not been fully proofread.

न्यायकोचः ।
 
२१७
 
कर्षणम् – १ [ क ] गत्यवच्छिन्नविकर्षणम् । यथा शाखा प्रामं कृष्यत
इत्यादौ कृषेरर्थः । अत्र ग्रामकर्मकगत्यवच्छिन्नविकर्षणकर्मताश्रयः शाखा
इत्याकारको बोध: ( श० प्र० पृ० १०५ ) । [ ख ] देशान्तरसंयो-
गानुकूलव्यापारानुकूलव्यापारः । यथा ग्राममजां कर्षतीत्यादौ कर्षणम्
( वाच ० ) । अत्र अस्य कृषधातोः व्यापारद्वयबोधकतया कर्तुरीप्सिततमं
कर्म (पा० सू० १९९४४९) इत्यनेन द्विकर्मकत्वम् । एकव्यापारबोधकत्वे
तु अकथितं च ( पा० सू० १९४९५१) इत्यनेन प्रामादे: कर्मत्वम् ।
अत्र प्रधाने कर्मण्येव वाच्ये लकारादयः । यथा अजा ग्रामं कृष्यते इति ।
तत्रोक्तं हरिणा गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्णहाम् इति ।
२ विलेखनम् । तदर्थश्च विदारणम् । अत्रार्थे कृषधातोर्न द्विकर्मकतेति मैदः ।
कला – ( कार्यम् ) चेतनपरतत्रत्वे सत्यचेतना कला ( सर्व० सं० १०
१६८ नकुली० ) ।
 
कलिकापूर्वम् – (अपूर्वम् ) परमापूर्वजनकः अङ्गजन्यः अपूर्वविशेषः । यथा
उत्पत्स्यपूर्वाणि ( दि० गु० पृ० २३५ ) ( चि० ४ ) (मू० म० ) ।
अत्र कलिकपा अंशेन जन्यम् अपूर्वम् इति व्युत्पत्तिर्दृष्टव्या ( वाच० ) ।
उत्पस्यपूर्वाणि च पञ्चभिर्वाक्यैर्विहितेभ्यः
षड्म्य आग्नेयादिभ्य
पन्नानि षट् सन्ति । तत्र पञ्च वाक्यानि तु यदाग्नेयोष्टाकपालोमा-
वास्यायां च पौर्णमास्यां चाच्युतो भवति ( तै० सं० २।६।३।३ )
उपांशु याजमन्तरा यजति ( तै० सं० २।६।६।४) ताम्यामेतमनीषो-
मीयमेकादशकपालं पूर्णमासे प्रायच्छत् ( तै० सं० २/५/२/३ ) ऐन्द्रं
दध्यमावास्यायाम् ( तै० सं० २१५/४/१ ) ऐन्द्रं पयोमावास्यायाम्
इति ( दि० गु० १० २३५ ) । अत्र आग्नेयाष्टाकपाळ्याग
ऐन्द्रदधियाग ऐन्द्रपयोयाग एतन्त्रयं दर्शस्य । आग्नेयाष्टाकपाळ्याग
उपांशुयाग अग्नीषोमीयैकादशकपालयाग एतत्रयं पौर्णमासस्य इति बोध्यम्
( मू० म० ४ ) ( वाच० ) ।
 
अनुमानवदस्यार्थोनुसंधेयः ( दि० १ ) ( नीक० ) ।
 
कल्पनम् – १
 
२८ म्या० को●