This page has not been fully proofread.

२१६
 
योः ।
 
द्वितीयार्थो निरूपितत्वम् । तस्य यज्ञान्वितत्वस्यानुशब्दायें जन्यत्वेन्वयः ।
जम्यतायाञ्चाश्रयत्वसंबन्धेन दृष्टावन्वयः ( ग० च्यु० का० २ ख०
२ पृ० ७६) । अन्वर्जुनं योद्धारः । अत्र अनुशब्दार्थोपकर्षः
( हीनत्वम् ) । द्वितीयार्थोबधिकत्वम् । तत्रार्जुनस्यान्वयः । द्वितीयान्ता-
र्थस्य अर्जुनाबधिकत्वस्य चापकर्षेन्वयः इति । अवधित्वस्यापादानता-
रूपत्वेपि क्रियान्वयाभावान्न पञ्चमीप्रसक्ति: ( ग० व्यु० का० २ ख०
२ पृ० ७६ )। वृक्षं प्रति विद्योतते विद्युत् । अत्र लक्षणेत्यंभूताख्या-
नमांगवीप्सासु प्रतिपर्यनवः (पाणि० ११४१९० ) इत्यनेन सूत्रेण
प्रति परि अनु एषां कर्मप्रवचनीयसंज्ञा अनुशिष्यते । तत्र प्रतिशब्दस्य
लक्षण इत्थंभूताख्यान भाग वीप्सा एतदात्मकानां चतुर्णामर्थानां
यथाक्रममुदाहरणानि कथ्यन्ते । तत्र प्रथमे लक्षणेर्थे वृक्षं प्रति
विद्योतते विद्युत् इत्युदाहरणम् । अत्र परिचायकत्वरूपं लक्षणत्वं
परिचेयत्वरूपं लक्ष्यत्वं वा प्रतिशब्दार्थः । वृक्षप्रकाशेन विद्युद्विद्योतन-
ज्ञानाद्वृक्षस्य परिचायकता द्वितीयार्थश्चाधेयत्वं निरूपितत्वं वा (ग०
ब्यु० ख० २ कार० २ पृ० ७६ ) । मातरं प्रति साधुः । अत्र
द्वितीये इत्यंभूताख्यानेर्ये संबन्धः प्रतिशब्दार्थ: । साधुत्वं च प्रियका-
रित्वम् । द्वितीयार्थश्च प्रतियोगित्वं प्रतियोगित्वनिरूपकत्वं वा । तस्य
पूर्वोक्तसंबन्धेन्वयः । तादृशसंबन्धस्य च साधुत्वघटकक्रियायामन्वयः ।
इत्यं च मातृसंबन्धिप्रियकारी इति बोध: । यो मां प्रति स्यात् ।
अत्र तृतीये भागेर्थे प्रतिशब्दस्यार्थो भागः । भागश्च स्वत्वाश्रयः ।
द्वितीयार्थश्च संबन्धः । तस्य पूर्वोक्तभागेन्वयः । इत्थं च मत्संबन्धी यो
भाग: स्यात् इति बोधः । वृक्षं प्रति सिञ्चति । अत्र चतुर्थे वीप्सायें
वृक्षं प्रति सिञ्चति इत्यादौ द्वितीयार्थः कर्मत्वम् । अत्र चतुर्थेर्थे कर्मण्येव
द्वितीया षत्वबाध एव संज्ञाफलम् प्रतिश्च निरर्थक इति ज्ञेयम् ( ग०
व्यु० का० २ ख० २ पृ० ७६ ) । एवं परि अनु एतयोरर्य ऊह्यः ।
कर्मयोगः– रसव पवनश्चेति कर्मयोगो द्विधा स्वतः ( सर्व० सं०
पु० २०४ रसेश्व० )।