2023-02-20 00:54:44 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
२१५
स्तोकनम्रा स्तनाभ्याम् इत्यादेः कालिदासाद्यैः प्रयुक्तत्वात् ( श० प्र०
लो० ३९ टी० पृ० ५५ ) । कर्मधारये समासे नीलोत्पलम्
इत्यादौ न शक्तिर्न वा लक्षणा । नीलपदार्थस्योत्पलपदार्थे अमेदसं-
बन्धेनैषान्वयोपपत्तौ शक्तिलक्षणानङ्गीकारात् । अत एव तत्पुरुषात्कर्म-
धारयो लघीयान् भवति ( न्या० प्र० ४ पृ० १३) । तथाहि
निषादस्थपतिं याजयेत् इति श्रुतौ बहुव्रीहितत्पुरुषसमासावपेक्ष्य
कर्मधारय एव लक्षणाद्यभावाल्लषीयान् इति ( त० प्र० स्व० ४
पृ० ५३-५४) । अत्रेदं बोध्यम् । निषादस्य संकरजातिविशे-
षस्य शूद्रान्तर्गततया स्त्रीशूद्रौ नाधीयाताम् इत्यनेन निषिद्धत्वाद्वेदसा-
मान्यानधिकारेपि निषादस्थपतिं याजयेत् इति विशेषश्रुतिबोधितयाज-
नान्यथानुपपत्यैव यागमात्रोपयुक्तमध्ययनं निषादस्य कल्प्यते । तथा च
स्त्रीशूद्राविति सामान्यशास्त्रघटकाध्ययनपदस्य विशेषतः प्राप्ताभ्ययनेतरा-
ध्ययनपरत्वं वाच्यम् । तेन निषादस्य यागोपयुक्ताभ्ययनेतराभ्ययननिषेधः
शूद्रान्तरस्य त्वध्ययनमात्रनिषेधः सिष्यति इति (मु० ४ ) ( दि० ४
पृ० १८४ ) ।
-
-
कर्मप्रवचनीयः – (अव्ययम् ) [ क ] क्रियानुयोगिक संबन्धविशेषद्योतकत्वे
सत्यन्वाद्यन्यतमः । यथा अनु उप इत्यादिः । तदुक्तं हरिणा क्रियाया
घोतको नाम संबन्धस्य न वाचकः । नापि क्रियापदाक्षेपी संबन्धस्य
तु मेदकः ॥ इति । कर्मप्रवचनीया एकादश सन्ति अनु उप
अप परि आङ् प्रति अभि अधि सु अति अपि । [ख] क्रियाविशेषो-
पजनितसंबन्धावच्छेदहेतवः ( सर्व० सं० पृ० २९९ पाणि० ) ।
एकादशानां मध्ये केषांचिदर्थः सोदाहरणं कथ्यते । तथाहि । यज्ञमनुप्रावर्ष-
दिव्यत्रायमर्थः । कारकत्वरूपहेतुत्वं अनुशब्दार्थः । अनुर्लक्षणे ( पाणि ०
१।४।८४ ) इति कर्मप्रवचनीयसंज्ञाविधायक सूत्रे लक्षणपदस्य कार-
कहेतुपरत्वात् । तथा च यज्ञमनु प्रावर्षत् इत्यादौ आधेयत्वं द्वितीयार्थः ।
तन्त्र यज्ञस्यान्वयः । आधेयत्वस्य च अनुपदार्थे हेतुत्वेन्वयः । हेतुतायाब
निरूपकत्वसंबन्धेन दृष्टाबन्वयः । अथवा अन्यत्वम् अनुशब्दार्थः ।