This page has not been fully proofread.

म्यायफोक्षः ।
 
श्रीहीन् प्रोक्षतीत्यादौ ब्रीहे: कर्मत्वम् । तेन श्रीहीन् प्रोक्षतीत्यादी बीहेः
प्रोक्षणफलीभूतातिशयानाश्रयत्वेपि न कर्मत्वानुपपत्तिः ( न्या० सि०
दी० पृ० १९) । एवमात्मनात्मानं जानातीत्यादावप्यूह्यम् ।
 
-
 

 
कर्मधारयः – ( समासः ) [ क ] तत्पुरुषः समानाधिकरणः कर्मधारयः
( पाणि० ११२।४२ ) । अत्रेदं बोध्यम् । कर्मधारये विशिष्टार्थे न
शक्तिर्न वा लक्षणा। ताम्यां विनापि विवक्षितान्वयबोधोपपत्तेः इति
( चि०४ ) । शाब्दिकास्तु समासमात्रे विशिष्टार्थेतिरिक्तां शक्तिं कल्पयन्ति ।
[ख] क्रमिकम् अव्यवहितम् यन्नामद्वयम् एकस्य नाम्नोर्थे धर्मिणि तादा-
स्म्येनापरनाम्नोर्थस्यान्वयबोधं प्रति समर्थम् तादृशनामद्वयं कर्मधारयः ।
यथा नीलोत्पलमित्यादावुत्पलादिपदस्यार्थे नीलादिपदार्थस्य तादात्म्ये-
नान्वयः । तथा पुरुषसिंह इत्यादावपि पुरुषादावुत्तरपदलक्ष्यस्य सिंहा-
दिसदृशस्य तादात्म्येनान्वयः । कुम्भस्य समीपम् इत्यर्थकस्तु उपकुम्भादिः
न तादात्म्येनान्वयबोधकः इति तत्र नातिप्रसङ्गः ( श० प्र० पृ० ११ ) ।
पुरुषसिंह इत्यादौ पुरुष: सिंह इव इत्यादिविग्रहे प्रायेणोपमेयस्योपमानैः
' उपमानानि सामान्यवचनैः (पा० सू० २।३/५५ ) इत्यनेन कर्मधा-
रयोनुशिष्यते ( श० प्र० पृ० ४१) । [ग] समासप्रयुक्तलक्षणाशून्य-
तुल्यार्थकोभयनामकसमासः । यथा नीलोत्पलमित्यादौ कर्मधारयः । अत्र
पञ्चमूलीत्यादावपि तुल्यार्थकोभयनामकत्वसत्त्वात्तद्वारणाय समासप्रयुक्त-
लक्षणाशून्येति नाम विशेषणम् । धवखदिराविति द्वंद्ववारणाय तुल्यार्थ-
केति नामविशेषणम् । नीलोत्पलमित्यत्र यद्यपि नीलपदे नीलगुणाश्रये
निरूढलक्षणा तथापि तस्याः समासप्रयुक्तत्वाभावात् नाव्याप्तिः । नाम-
द्वयस्य तुल्यार्थत्वाञ्च लक्षणसमन्वयः संभवति इति ज्ञेयम् ( म० प्र० ४
पृ० ४४ ) । स्तोकपक्ता इत्यादी क्रियाविशेषणैः कर्मधारय एव ।
महाकविर्महाविज्ञः इत्यादौ कवित्वादाविव प्रकृतेप्यनेकनामार्थैक-
कर्मधारयत्वस्य संभ-
देशे
 
पचनादावपरनामार्थस्यामेदान्वयबोधकतया
 
वात् । स्तोकं पक्ता इत्यादौ अमस्तादात्म्यवाचित्वे तु तत्पुरुषः संभव-
स्येव । क्रियाविशेषणैः समास एवाव्युत्पन्नः इति तु न देश्यम् ।