This page has not been fully proofread.

न्यायकोशः ।
 
६० पृ०
 
समवेतेति क्रियाविशेषणम् ( म० प्र० पृ० ६ ) । मार्म गच्छ-
तीतिवत् स्वं गच्छतीति प्रयोगवारणाय परसमवेतत्वमपि द्वितीयार्थ
इष्यते (ग० ब्यु० का २ पृ० ४९ ) । गमिपत्योः पूर्वदेशे स्पजेह-
तरदेशे स्पन्देश्य पूर्वोत्तरयोः कर्मत्ववारणाय धात्वर्येति ( उ०म० मु०
पृ० ९० ) । [ग] ] शाब्दिकास्तु कर्तृगतप्रकृतधात्वर्थव्यापार प्रयोज्य-
तदनधिकरणवृत्तिप्रकृतधात्वर्थफलाश्रयत्वम् (वै० सा०
१५३ ) । [घ ] व्याकरणशास्त्रबोधितकर्मसंज्ञकत्वं कर्मत्वम् ( उ०
म० सुब० पृ० ८५ ) । तेन अधिशय्यते प्रासादः इत्यादौ कर्मणि
लकारोपपत्तिः । अधिशेतेः कर्मसंज्ञा विशिष्टान्वितस्वार्थबोधकत्वादित्याहुः
( वाच० ) [ङ ] प्रकृतधात्वर्थप्रधानीभूतव्यापारप्रयोज्यप्रकृतधात्व-
र्थफलाश्रयत्वेनोद्देश्यत्वम् । इदमेव कर्तुरीप्सिततमं कर्म (पाणि ०
१।४।४९ ) इत्यत्र ईप्सिततमत्वं बोध्यम् । गां पयो दोग्धीत्यादौ
पयोवृत्तिर्यो विभागस्तदनुकूलो व्यापारो गोवृत्तिः । तदनुकूलक्ष गोप-
वृत्तिः । अत्र पयसः कर्मत्वसिद्धये प्रयोज्यत्वनिवेशः । जन्यत्वनिवेशे तु
तन स्यात् । जन्यत्वं हि साक्षादेव । म्योज्यत्वं तु साक्षात्परंपरासाधा-
रणम् । प्रयागात्काशीं गच्छतीत्यत्र प्रयागस्य कर्मत्ववारणाय प्रकृत-
धात्वर्थफलेति । न हि विभागः प्रकृतधात्वर्थः । किंतु नान्तरीयकतया
गमने सति उत्पद्यते प्रयागस्य फलाश्रयत्वेनानुद्देश्यत्वाच । ननु
प्रकृतधात्वर्थस्य ग्रहणेनैवात्र वारणादुद्देश्यत्वनिवेश: किमर्थ इति चेन्न ।
तस्यासाधारणं प्रयोजनं काशीं गच्छन्पथि मृत इति । अत्र हि काश्याः
फलाश्रयत्वाभावेपि फलाश्रयत्वेनोद्देश्यत्वात्कर्मत्वम् । ननु काशीं गच्छति
चैत्रे चैत्रः काशीं गच्छति न प्रयागम् इति प्रयोगानुपपत्तिः । प्रयागस्य
फलाश्रयत्वेनोदे श्यस्वाभावादिति चेत् उच्यते । कर्मलक्षण ईप्सिततम-
पदस्य स्वार्थविशिष्टयोग्यताविशेषे लक्षणा । तथा च प्रकृतधात्वर्थप्रधानी-
भूतव्यापारप्रयोज्य प्रकृतधात्वर्थफलाश्रयत्वेनोद्देश्यत्वयोग्यताविशेषशालित्वं
कर्मत्वम् । तच प्रयागस्याप्यस्तीति कर्मत्वं सुलभम् । [च ] न्याय-
सिद्धान्तदीपिकायां तु करणव्यापारविषयकारणत्वं कर्मत्वम् । यथा