This page has not been fully proofread.

न्यायकोचः ।
 
एवार्तस्य विषमीप्सितं यत्तद्भक्षयतीति भाष्यं संगच्छते । तस्माचोरा-
म्पश्यतीति द्वेष्योदाहरणम् । विषयेन्द्रियसंबन्धादृश्यमाना अपि न
दर्शनोद्देश्या इति । षष्ठं यथा गां दोग्धीत्यादौ गौः । सप्तमं यथा
क्रूरममिक्रुष्यतीत्यादी क्रूरः कर्म इति । तत्रोक्तं हरिणा निर्वर्त्य च विकार्य
म्व प्राप्यं चेति त्रिधा मतम् । तच्चेप्सिततमं कर्म चतुर्धान्यतु कल्पितम् ॥
औदासीन्येन यत्प्राप्यं यच कर्तुरनीप्सितम् । संज्ञान्तरैरनाख्यातं यद्यच्चा-
प्यन्यपूर्वकम् ॥ इति । तत्र विकार्यमपि द्विविधम् । कचित् प्रकृत्युच्छेदः
कचित्त गुणान्तरोत्पत्तिमात्रम् इति । तत्राद्यम् काष्ठं भस्म करोति
इति । द्वितीयं तु सुवर्णे कुण्डलं करोति इति ( बै० सा० पृ० १६९) ।
तञ्चोक्तं हरिणा विकार्य तु कर्म द्वेधा व्यवस्थितम् । प्रकृत्युच्छेदसंभूतं
किंचित्काष्ठादि भस्मवत् । किंचिद्गुणान्तरोत्पत्या सुवर्णादि विकारवत् ॥
इति ( ग० व्यु० का० २ पृ० ६५) । अत्र प्राप्यत्वं च क्रियाकृत-
विशेषानुपलभ्यमानत्वम् । निर्वर्त्यविकार्ययोस्तु क्रियाजन्योत्पत्त्यादिफलस्य
कर्ममात्रनिष्ठतया असाधारण्येन तद्वत्त्वान्नातिप्रसङ्ग इति बोध्यम् (बाच०) ।
अथवा क्रियाप्रयोज्यासाधारणचर्मप्र का प्रतीति विषयतानाश्रयत्वे सति
फळाश्रयत्वम् । निर्वर्त्यादावतिव्याप्तिवारणाय सत्यन्तम् ( वै० सा०
द० सुब० पृ० १६८) । औदासीन्यत्वं च कर्तुरनुदेश्यत्वे सति
क्रियाजन्यफलवत्वम् । यथा प्रामं गच्छन् तृणं स्पृशतीत्यादौ तृणादेर-
नुद्देश्यत्वेपि क्रियाजन्यसंयोगरू प्रफलवत्त्वेनोदासीनकर्मता ( बाच० ) ।
द्वेष्यत्वं च द्विष्टसाधनत्वे सति क्रियाजन्यफलवत्वम् । संज्ञान्तरैरना-
ख्यातं तु अपादानत्वादितत्तद्रूपविशेषैरविवक्षितम् (बै० सा० ६०
सुब० पृ० १६९) । अथवा कारकविशेषसंज्ञान्तरेणाविवक्षितत्वे सति
कर्मोपकारकम् । यथा गां पयो दोग्धीत्यादौ गवादेः कारकान्त्रसंज्ञाया
अपादानत्वादेः यविषक्षया पयोरूपकर्मोपयोगितया कर्मत्वम् (बाच ० ) ।
अत्रेदं बोध्यम् पूर्वविधिप्रसक्तिपूर्वकं तदविषक्षायां सर्वथा पूर्वविधे-
रप्रसक्तौ च अकथितं च ( पा० सू० ११४१५१ ) इत्यस्य प्रवृत्तिः
इति (वै० सा० पृ० १६९) । अन्यपूर्वकं अल्पसंज्ञानाशनपूर्व
 
ļ