This page has not been fully proofread.

i
 
to
 
न्यायकोषः ।
 
* शिका या ओदनोत्पादिका ओदनविषयिका च कृतिः तदाश्रयः इति
शाब्दबोषः । एवमन्यत्राप्यूह्यम् । काशान्कटं करोति पुष्पाणि माल्यं
करोतीत्यादौ धर्मिणः काशकुसुमादेः सत्त्वेपि कटसंदर्भविरहरूपपू-
र्वभावासत्वेन तद्विशिष्टस्यासत्त्वं कटसंदर्भादिनिष्पादकं क्रियातो निर्वहति
इति ज्ञेयम् । अत्रेत्थमन्वयः । काशान् कटं करोति कुसुमानि मौक्तिकानि
बा स्रुजं करोतीत्यादी काशादिपदोत्तरद्वितीया कृतौ विषयताविशेषमेव
बोधयति । काशापुच्छेदकतायास्तत्र बाधात् । कटमित्यादौ द्वितीयार्थः
पूर्ववत् । स्रजमित्यादिद्वितीयान्तस्य विशिष्टसस्त्वनिर्वाहकत्वमर्थः । वि
न्यासात्मकविशेषोत्पादकस्यापि स्वरूपसंबन्धविशेषरूपविशिष्टसत्त्व निर्वाह-
कत्वमक्षतमेव । ओदनं पचतीत्यत्र तण्डुलादिरूप पूर्वद्रव्यं विनाश्यौदना-
देर्निर्वर्तनं क्रियया । पुष्पाणि माल्यमित्यत्र पुष्पादिरूपपूर्वद्रव्यमविनाश्य
तत्रैष संदर्भादिरूपविशेषनिष्पादनेन तद्विशिष्टस्य माल्यादेर्निर्वर्तनं
क्रियया । काशान् कटं करोतीत्यादौ काशादिरूपपूर्वधर्मिणमविनाश्य
तत्रैब कटादिरूपधर्मिनिष्पादनं क्रियया (ग० व्यु० का ० २ पृ०६५) ।
अत्र काशादिनिष्ठविलक्षणविषयतानिरूपितविषयिताबती या कटादिवि-
षयिका तदुत्पादिका च कृतिः तदाश्रयः इति बोधः । एवमन्यत्रापि
बोध ऊद्यः
। प्रकारान्तरेण व्याकरणशास्त्रोक्तरीत्या कर्म सप्तविधं
भवति । तथाहि निर्वर्त्यम् विकार्यम् प्राप्यम् उदासीनम् द्वेष्यम्
संज्ञान्तरैरनाख्यातम् अन्यपूर्वकं चेति । तत्राद्यत्रयम् ईप्सिततमं कर्म
कर्तुः क्रिययेप्सिततमव्यापारं भवति ( ल० म० सुब० १० ८४ ) ।
तदन्यदवशिष्टचतुष्टयम् इति विवेकः । तेषां सप्तानां मध्ये आद्यं यथा
घटं करोतीत्यादौ घटः कर्म । द्वितीयम् सोमं सुनोतीव्यादौ सोमः ।
काष्ठं भस्म करोतीत्यादौ काष्ठादि विकार्ये भस्मादि च निर्वये कर्म ।
तृतीयम् ग्रामं गच्छति घटं जानातीत्यादौ ग्रामघटादि । चतुर्थे यथा
ग्रामं गच्छन् घटं पश्यतीत्यादौ घटः । पञ्चमं यथा विषं भुङ्क इत्यादौ
विषम् । अत्रेदं बोध्यम् । ताडनादिना पराधीनतया विषभोज-
नादिकं भवति । तत्र विषादि तादृशफळाश्रयत्वेनोहेश्यमेव । अत