2023-02-20 00:54:42 by ambuda-bot
This page has not been fully proofread.
+
अत्र गौणकर्मणि गवादौ लादयः ( ल० म० सुब० ५० ९१) । शब्द-
शक्ति प्रकाशिकाकृतस्तु गां दोग्धि फ्य इत्यादौ प्रधानकर्म मौः पयस्त्वप्र-
धानकर्म इत्याहुः (श० प्र० १० ९८) । एतत्पूर्व (६४)प्रपतम्
तत्र द्रष्टव्यम् । प्रकारान्तरेण ईप्सिततमं कर्म त्रिविधं भवति । प्राप्यम्
प्रकृतिविकृती च । तत्राद्यम् क्रियाजन्यफलशालि । यथा ग्रामं गच्छ-
तीत्यादौ गम्यादेर्ग्रामादि । घटं जानातीत्यादौ ज्ञानादेविषयश्च । द्वितीयं
क्रियया वस्वन्तरनिष्पत्तये पूर्वभाव विशिष्टस्य यस्यासत्त्वरूपो विकारो
निर्वाचते तत् । यथा तण्डुलानोदनं पचतीसादौ पाकादेस्तण्डुयदि ।
पुष्पाणि मान्यं करोति काशान्कटं करोति इत्यादौ कृतेश्च पुष्पकानादि ।
तृतीयं च क्रियया निष्पाद्यं यत् तत् । यथा पाकादेरोदनादि । यथा वा
कृते: माल्यादि कटादि चेति । तत्र विकृतिरूपं कर्म प्रकृतेरसमसिव्या-
हारस्थले ओदनं पचतीत्यादौ निर्वर्त्यमित्युच्यते । तत्रोक्तम् सती वा-
विद्यमाना वा प्रकृतिः परिणामिनी । यस्य नाश्रीयते तस्य निर्वर्त्यत्वं
प्रचक्षते ॥ इति । तदर्थव यस्य विकृतिकर्मणः नाश्रीयते न प्रयुज्यते
इति । तण्डुलानोदनमित्यन्न तण्डुलादिरूपधर्मिनाशादेव पूर्वभाववि-
शिष्टतदसत्त्वम् ओदनादिरूपकर्मान्तरनिष्पादकं क्रियातो निर्वइति
इति बोध्यम् । अत्रेत्थमन्वयः । तण्डुलानोदनं पचतीत्यादौ प्रकृतिक-
पोत्तरद्वितीयायाः तण्डुलान् इत्यत्रत्यायाः नाशकत्वमर्थः । तण्डुलाद्यन्वितं
नाशकत्वं च पाकेन्नेति: विकृतिकर्मोत्तरद्वितीयायाश्च ओदनम् इत्यत्रत्यायाः
उत्पादकत्वमर्थः । ओदनाद्यन्वितस्य तस्य नाशकत्वविशिष्टे पाकेन्वयः ।
नाशे चोत्पत्तेः प्रयोजकत्वम् उद्देश्यतावच्छेदकविधेयभावमहिम्ना नियमतो
भासते । तथा च ओदनोत्पादको यस्तण्डुलनाशक: पाकः तदनुकूल
कृतिमान् इति तण्डुलानोदनं पचतीति वाक्याद्वोषः । एवं तण्डुलमोदनं
करोति काष्ठं भस्म करोति दुग्धं दधि करोति इत्यादावपि प्रकृतिकर्मों-
तरद्वितीयया तभाशकत्वं कृतौ प्रत्याय्यते । विकृतिकर्मोत्तरद्वितीयया च
विषयलाविशेष उत्पादकत्वं वा मिलितं वा कृतौ बोच्यते । अत्र तण्डुलना-
१ अविवसामा इदि पदच्छेदः ।
२७ न्या० डौ०