2023-02-20 00:54:42 by ambuda-bot
This page has not been fully proofread.
२०८
कोशः ।
त्वात् देवदत्तो विहगश्च स्वात्मानं गच्छति प्रयाति च इति प्रयोगापत्तिः ।
तद्वारणाय परसमवेतक्रियाजन्यत्वम् क्रियाजन्यफले ( मतमेदेन धात्वर्थ-
तावच्छेदकफले वा ) विशेषणत्वेन निवेश्यम् । इत्थं च द्वितीयादेः
क्रियान्वयि परसमवेतत्वमप्यर्थः । परत्वं च स्वप्रकृत्यर्थापेक्षया । स्वपदेन
द्वितीया गृह्यते । इदं च कर्मसामान्यलक्षणम् इति ज्ञेयम् । अत्र प्राथो
नैयायिकाः क्रियाजन्यफलशालि कर्मेव्याडुः । नव्यास्तु धात्वर्थतावच्छे-
दकफलशालि कर्मेति प्राडु: ( ग० व्यु० का० २५० ३६ – ३८, का०
४ पृ० ९३ ) । फलशालित्वं च फलानुयोगित्वम् । [ग] फलाश्र-
यतयेष्टम् ( ग० व्यु० का० ४ १० ९३) [घ ] शशधरादयस्तु
कारणव्यापारविषयः कर्मेत्या (चि० १) ( का० व्या० पृ० ३ ) ।
यथा श्रीहीन्प्रोक्षतीत्यादौ मीहिः कर्म ( न्या० सि० दी० पृ० १९ ) ।
यथा वा चक्षुषा घटं जानातीत्यादौ घटः कर्म कचित् विषयः
—
कर्म ( त० प्र० ) । यथा भाविनं घटं जानातीत्यादौ घटः कर्म
( गौणम् ) । यथा वा मातुः स्मरतीत्यादौ माता कर्म ( म०प्र०
पृ० ४, ६ ) । अत्रेदं बोध्यम् । नैयायिकमते सविषयार्थकधातुसम-
भिव्याद्वारे विषयत्वात्मकं गौणं कर्मत्वम् कर्तुरीप्सिततमं कर्म (पा० सू०
१।४।४९ ) इत्यनेन बोभ्यते । तथा च घटविषयताशालिज्ञानाश्रय-
तावान् मातृविषयकस्मरणवान् इति बोधः । वैयाकरणमते तु अत्रापि
ज्ञानानुकूलव्यापारस्य स्मरणानुकूलव्यापारस्य च धात्वर्थत्वेन मुख्यमेव
कर्मत्वं बोध्यते नतु गौणम् । तथा व व्यापारमुख्यविशेष्यक एव
सर्वत्र बोधः इति । दिवाकरस्तु संस्कारावच्छिन्नमेव ज्ञानं जानात्यर्थ
इति उक्तस्थले मुख्यमेव कर्मत्वम् इत्याह ( श० प्र० पृ० १०१) ।
कचित् प्रतियोगि कर्म । यथा घंटं नाशयतीत्यादौ घटः कर्मेति
( का० व्या० पृ० ३ ) । कर्म द्विविधम् । प्रधानकर्म अप्रधा-
नकर्म चेति । तत्राद्यम् गां दोग्धि पय इत्यादौ पयः । द्वितीयं तु
तत्रैव गौः इति ( ल० म० सुब० पृ० ९१ ) । अत्र गोरपादान -
त्वाविवक्षायां अकथितं च (पा० सू० १९४५१ ) इत्यनेन कर्मत्वम् ।
.