2023-02-20 00:54:41 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
प्रव्यवायत्रवणानित्यत्वम् । पुत्रादिकामनाश्रवणात्काम्यत्वमपि संगच्छते
( त० प्र० ख० ४ पृ० १०३) । मीमांसकनये नित्यम् नैमित्तिकम्
काम्यं चेति त्रिविधं कर्म (व्यासस्मृ० ) । तत्र यदकरणे प्रत्यवा-
यस्तन्नित्यम् । यथा संध्योपासनादि । अनियतनिमित्तकं नैमित्तिकम् ।
यथा प्रहणश्राद्धादि । तत्र राहूपरागस्यानियतस्यैव निमित्तत्वात् । अत्र
नित्यत्वं च प्रत्यवायसाधनीभूताभावप्रतियोगित्वम् । नियतनिमित्तकत्वमिति
यावत् । संध्योपासनादौ प्रातरादिसमयस्य नियतस्यैव निमित्तत्वात् ( म०
प्र० ४ पृ० ६० ) । अथवा फलकामना नवीनकर्तृकत्वम् ( स० प्र०
ख० ४ पृ० १०३ ) । नैमित्तिकत्वं च निमित्तनिश्चयाधीनकर्त-
ब्यताकत्वम् । यथा वा जातेध्यादौ ( वाच० ) । काम्यं तु फलका-
मनाघीनकर्तव्यताकं कर्म । यथा स्वर्गेदोशेन कृतं अश्वमेधयागादि ( म०
प्र० ४ पृ० ६० ) ( वाच० ) । सात्त्विकराजसतामसभेदेन त्रिविधं
कर्मेति वेदान्तिनः (गीता १८/२३ - २५) । वेदान्तिनां मते कर्म पु-
प्यपापजनकम् । तच्च द्विविधम् संचितम् प्रारब्धं चेति । तत्र अनारब्ध-
विपाकः कर्माशयः संचितम् । तच्च ज्ञानामिना दह्यते । आरब्ध-
विपाका कर्माशयः प्रारब्धम् । तच्चोपभोगेनैव नश्यति इति बोध्यम् ।
इदं च शुक्लकृष्णकृष्णशुक्लभेदेनापि त्रिविधम् । तत्राद्यम् हिंसाचनपेक्षं
पुण्यजनकं स्वाध्यायादि । द्वितीयम् शास्त्रनिषिद्धं पापजनकं ब्रह्महत्यादि ।
तृतीयम् हिंसादिसहितं वेदविहितं पुण्यापुण्यजनकं पशुयागादि (वाच०) ।
३ [क] कर्तुरीप्सिततमं कर्म (१९९१४।४९ पाणि० ) इत्यादिभिः
सूत्रैर्यस्य कर्मसंज्ञा विधीयते तत् । [ ख ] परसमवेतक्रियाफलशालि
(चि० १) । यथा देवदत्तो ग्रामं गच्छतीत्यादौ ग्रामः कर्म यथा
वा भूमिं प्रयाति विहगो विजहाने मही रुहमित्यादौ भूमिमहीरुहौ
कर्मणी (का० व्या० पृ० ३ ) । यथा वा अन्नवद्विषं भुत इत्यादौ
विषम् । अत्रेदं बोभ्यम् । ग्रामं गच्छति देवदत्तः भूमिं प्रयाति विहग
इत्यादौ संयोगानुकूलस्पन्दात्मकब्यापारो गम्धातोर्याधातोश्वार्थः । तथा
संयोगात्मक फलस्य द्विष्ठत्वेन देवदत्तविहगात्मककर्त्रादावपि वृत्ति-