This page has not been fully proofread.

न्यायकोचः ।
 
मत्त्वम् ( त० व० परि० १६८० २४० ) ( वै० उ० १११/१७)
इत्यादि बोध्यम् । संयोग एव कर्मेति भूषणमतम् ( प्र० प्र० ) । भूषणमते
संयोगापेक्षया कर्मणोतिरिक्तत्वं नास्तीति विज्ञेयम् ( दि० १ पृ० १९ ) ।
न्यायवैशेषिकनये कर्म पञ्चविधम् । उत्क्षेपणम् अपक्षेपणम् आकुञ्चनम्
प्रसारणम् गमनं चेति ( बै० ११ १/७ ) ( त० कौ० १ पृ० १ )
( त० सं० ) ( भा०प० श्लो० ६) । गमनलक्षणं चोत्क्षेपणादिचतु-
ष्टयभिन्नत्वे सति कर्मत्वव्याप्यजातिमत्त्वम् ( वै० उ० ११ ११७ ) । तच्च
गमनं बहुविधम् भ्रमणम् रेचनम् स्पन्दनम् ऊर्ध्वज्वलनम् तिर्यग्ग-
मनम् इति ( भा० प० १ श्लो० ७ ) । भ्रमणादिप्रकार: शिक्षिताश्व-
गत्यादौ प्रसिद्ध इति श्रूयते । भ्रमणादिषु गमनत्व जातेस्त्ब नियतदिग्देश-
संयोगविभागासमवायिकारणत्वमेव व्यञ्जकम् इति ज्ञेयम् ( ३० उ०
१।१।७) (वै० वि० १।१।७ ) । उत्क्षेपणादीनां पञ्चानामपि कर्मत्य
संबन्धः एकद्रव्यवृत्तित्वम् क्षणिकत्वम् मूर्तद्रव्यवृत्तित्वम् अगुणवस्वम्
गुरुत्वद्रवत्वप्रयत्नसंयोगजन्यत्वम् स्वकार्यसंयोगविरोधित्वम् संयोगविभाग-
निरपेक्षकारणत्वम् असमवायिकारणत्वम् स्वपराश्रयसमवेतकार्यारम्भकत्वं
च । वस्तुतः कर्मैकविधमेव निष्क्रमणत्व प्रवेशनत्वादिषदुत्क्षेपणत्वादे-
जतित्वाभावेन मेदकत्वाभावात् इति विज्ञेयम् (प०मा० ) । २ क्रियते
फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजाकरवत्प्रवाह रूपेणानादि ( सर्व ०
सं० पृ० १८८ शैष० ) । यथा कर्मणैव हि संसिद्धिमास्थिता जनकादयः
( गीता ३।२० ) इत्यादौ । कर्माणि षट् शान्तिकरणम् वशीकरणम्
स्तम्भनम् विद्वेषः उच्चाटनम् मारणं चेति । एते षट् प्रयोगास्तन्नायुक्ताः ।
यजनम् याजनम् अध्ययनम् अध्यापनम् दानम् प्रतिग्रहश्चेति एतानि
ब्राह्मणस्य षट्कर्माणि । धौतिर्बस्तिस्तथा नेतिर्नौलिकी त्राटकस्तथा ।
कपालभातिश्चैतानि षट् कर्माणि समाचरेत् ॥ इत्यनेनोक्तानि शुद्धिकराणि
षट् कर्माणि हठयोगाङ्गानि ( वाच० ) । केचित कर्म त्रिविधम् नित्यं
काम्यं नित्यकाम्यं चेति । तत्र केवलं नित्यं संध्याबन्दनादि । केवलं
काम्यं यागादि । नित्यकाम्यं तु एकादशीव्रतादीव्याः । एततस्याकरणे