This page has not been fully proofread.

न्यायकोचः ।
 
२०५
 
वशात्सर्वेषां कर्तृत्वं हरिणोक्तम् इति ( वाच० ) ( ल० म० सुब०
पृ० ८४ ) । अनुकूल कृतिमदन्तःकरणप्रकृतित्वं कर्तृत्वमिति सांख्या
आहुः । न्यायनये कर्तृत्वं द्विविधम् मुख्यं गौणं चेति । तत्रायं
कृतिमत्त्वम् । द्वितीयम् आश्रयत्वप्रतियोगित्वादि ।
 
कर्म–१ ( पदार्थः ) [ क ] एकद्रव्यमगुणं संयोगविभागेष्वनपेक्षकारण-
मिति कर्मलक्षणम् (वै० १।१।१७) । अत्र एकद्रव्यत्वं च एकमात्र-
मूर्तसमवायिकारणकत्वम् (वै० उ० २।१।२१ ) । मूर्तमात्रसमवेतत्वं
वा ( वै० वि० २ । १ । २१ ) । संयोगेत्या देः संयोगविभागयोर्निर-
पेक्षकारणमित्यर्थः । संयोगविभागयोः प्रत्येकमेव कारणत्वम् न
मिलितयोः ( त० व० पृ० २४० ) । कर्म च संयोगविभागयोः
स्वानन्तरोत्पन्नभावनैरपेक्ष्येण कारणम् (वै० वि० १ । १ । १७) (मु०
गु० पृ० १९८ ) । अत्र निरपेक्षत्वं च स्वोत्पत्त्यनन्तरोत्पत्तिकान-
पेक्षत्वम् । पूर्वसंयोगध्वंसस्तु स्वोत्पश्यनन्तरानुत्पत्तिक एव । अभाव-
त्वेन तस्याद्यक्षणसंबन्धाभावात् (वै० उ० १ । १ । १७ ) । तच्च कर्म
मूर्तद्रव्यमात्रसमवेतम् अनित्यमेव । उत्तरसंयोगात् कदाचिदाश्रयनाशाच
नश्यति इति ज्ञेयम् ( त० कौ० पृ० २०) । तथाहि प्रथमं द्रव्ये
कर्मोत्पद्यते । ततो विभागः । ततः पूर्वसंयोगनाशः । तत उत्तरदेश-
संयोगः : द्रव्यनाशच । ततः कर्मनाशः इति । कर्म पञ्चविधम् । ऊर्ध्व
चाधश्वामिमुखं तिर्यग्विष्वगिति कमात् । तानि पञ्चापि कर्माणि दश
संयोगमेदतः ॥ इति ( ता० र० श्लो० ५२ ) । [ ख ] चलनात्म-
कम् ( त० सं० ) । संयोगविभागानुकूलमित्यर्थः (वाक्य० पृ० २२ ) ।
[ग] संयोगभिन्नत्वे सति संयोगासमवायिकारणम् ( त० दी० १
पृ० ६ ) । [घ ] कर्मत्वजातिमत् ( त० दी० १ पृ० ६ ) ( त०
कौ० १ पृ० १ ) । तलक्षणं तु विभागासमवायिकारणत्वे सति
संयोगहेतुत्वम् ( दि० गु० पृ० १९८ ) । नित्यावृत्तिसत्तासाक्षालाप्य-
जातिरूपं कर्मत्वम् (बै० उ० १११।१७ ) । नित्यावृत्तिपदार्थविभाज-
कोपाधिमत्वम् (ल० ब० ) । अनेकाश्रितावृत्तिसत्तासाक्षायाप्यजाति-