This page has not been fully proofread.

न्यायकोशः ।
 
व्या० पृ० २ ) । तन्मते अचेतनकाष्ठादीनामपि मुख्यं कर्तृत्वमिष्टमेव इति
विज्ञेयम् । इदमत्राबधेयम् । कारककर्मादिपदषत्कर्तृपदेपि कृषातुः क्रिया-
थंक एक अचेतनसाधारण्याय प्रायः । आश्रयत्वमिह तत्तदाख्यातार्थद्वारा ।
तथा च यगाद्यसमभिव्याहृताख्यातेन यद्धात्वर्थान्वितयद्धर्मवस्वं बोध्यते
तद्धात्वर्थनिरूपितधर्मवस्वं तद्धात्वर्थकर्तृत्वम् । यथा पचतीत्यादौ पाकाद्य-
नुकूलव्यापारबत्त्वम् जानातीत्यादौ ज्ञानाद्याश्रयत्वम् नश्यतीत्यादौ नाश-
प्रतियोगित्वम् इति । चैत्रेण पच्यत इत्यादौ पाकजन्य फलाश्रयत्ववारणाय
यगाद्यसमभिष्याहृतेति । अत्र चैत्रादेः कर्तृत्वं पचतीत्याख्यातबोध्यं
धर्ममादायैवेति ज्ञेयम् ( का ० व्या० पृ० २ ) । [ष ] उपादान-
गोचरापरोक्षज्ञानचिकीर्षाकृतिमत्त्वम् । यथा ईश्वरस्य सणुकादिकर्तृत्वम्
( त० दी० १ आत्म० १० ११ ) । यथा वा कुळालस्य घटकर्तृत्वम् ।
इदं च प्राचीननैयायिकमतानुसारि मुख्यं कर्तृत्वम् । [ङ ] इतर-
कारकाप्रयोज्यत्वे सति सकलकारकप्रयोक्तृत्वम् ( सर्व० सं० पृ० २५४
अक्ष० ) । यथा चैत्र ग्रामं गच्छतीत्यादौ चैत्रस्य कर्तृत्वम् ।
क्वचित् व्यापाराश्रयत्वम् । यथा रथो गच्छतीत्यादौ रथादेः कर्तृत्वम् ।
कचित् प्रतियोगित्वम् । यथा घटो नश्यतीत्यादौ घटस्य कर्तृत्वम् ।
कचित् कृत्यवच्छेदकत्वम् । यथा शरीरस्य कर्तृत्वम् (गौ० १०३।१।६ ) ।
कचिदित्येवमुक्तानीमानि त्रीणि सर्वेषां मते गौणानि कर्तृत्वानि इति
विज्ञेयम् । शाब्दिकास्तु कर्तृप्रत्यय - (शपश्यनादिप्रत्यय-) समभिव्याहृत-
धातूपान्तप्रधानीभूतब्यापाराश्रयत्वम् । अथवा कर्तृसंडाबोधितकर्तृत्वशक्ति-
मत्वम् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रस्य कर्तृत्वम् ( ल० म०
सुबर्थ० पृ० ९५ ) इति वदन्ति । सा शक्तिव कर्तृप्रत्ययसममिव्याहारे
ब्यापारतावच्छेदकसंबन्धेन तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारताना-
श्रयतद्धात्वर्थाश्रयत्वम् ( ल० म० सुब० पृ० ९५ ) । अत्रेदं बोध्यम् ।
करणाधिकरणकर्मणामेव विवक्षया कर्तृत्वमिति नापादानसंप्रदानयोः
कर्तृत्वमिति महाभाष्यकाराः । उत्पत्तिमात्रे कर्तृत्वं सर्वत्रैवास्ति कारके ।
व्यापारमेदापेक्षायां करणत्यादिसंभवः ॥ इयनया कारिकया विवक्षा-