This page has not been fully proofread.

कार्यानुत्पादस्तत् (नील० १ पृ० १६ ) । शाब्दिकास्तु खम्याप्येतर-
यावत्कारणसमवधाने सति यदद्व्यवहितोत्तरक्षणे फलनिष्पत्तिस्तदिव्याहुः
(बै० सा० द० सुब० १० १७९) । फलायोगव्यवच्छिन्नं फलोपधायकं
वा कारणमेव करणम् । ज्ञानादावात्मापि करणमिष्टमेव ( श० प्र०
पृ० ८८ ) ( न्या० म० १ पृ० २ ) । आभ्यन्तरम् बाह्यम् इति
द्विविधः कारणविशेष: करणम् इति सांख्या आहुः । सांख्यानामयं
सिद्धान्तः कारणविशेष: करणम् । करणं त्रयोदशविधम् । यदाह करणं
त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । ( सां० का० ३२ ) । करणं
त्रयोदशविधम् । इन्द्रियाण्येकादश बुद्धिरहंकारश्चेति त्रयोदशप्रकारं करणम्
( बाच० ) । तत्रेन्द्रियरूपं करणमाहारकम् । बुद्धिरूपं प्रकाशकम् ।
अभिमानरूपं धारकमिति बोध्यम् ।
 
करणी - वैश्याच्छ्रदायामुत्पन्ना ( रथकारशन्दे दृश्यम् ) ।
 
कर्कट: कर्कटौ तुलान्तयोः शिक्याधारावीषकावायस कीलको कर्कट -
शृङ्गसंनिभौ ( मिताक्षरा म० २ श्लो० १०२) ।
 

 
कर्ता- -क्रियानुकूलकृतिमान् । यथा चैत्रस्तण्डुलं पचतीत्यादौ चैत्रादिमुख्यः
कर्ता । स्वतन्त्रः कर्ता (पा० ११४ १५४ ) इति सूत्रे स्वातव्यमपि क्रिया-
नुकूलक्कृतिम स्वमेवेति न तद्विरोध: ( म०प्र० १० ६ ) । शाब्दिकास्तु
स्वातत्र्यं च सममिध्याहृतकार कान्तरानधीनत्वे सति कारकत्वम् ( वै०
सा० द० ) । धात्वर्थव्यापाराश्रयत्वं वा ( उ० म० सुब० १० ९५ )
( वै० सा० पृ० १७३) । अत्रोक्तं हरिणा धातुनोक्तक्रिये नित्यं कारके
कर्तृतेष्यते । प्राधान्यतः शक्तिलाभात्प्राग्भावापादनादपि ॥ तदघीन-
प्रवृत्तित्वात्प्रवृत्तानां निवर्तनात् । अदृत्वात्प्रतिनिधेः प्रविवेके च दर्श-
नात् ॥ आरादप्युपकारत्यास्वातत्र्यं कर्तुरिष्यते इति । नागेशभादयस्तु
कर्तृप्रत्ययसममिव्याहारे व्यापारतावच्छेदकसंबन्धेन धात्वर्थनिष्ठविशेष्य-
तानिरूपितप्रकारतानाश्रयतद्धात्वर्थाश्रयत्वम् (ल० म० सुब० ५० ९५ )
( वै० सा० ८० सुब० पृ० १७३) इत्याहुः । घटो भवति पटो नश्प-
२६ या को●