2023-02-20 00:54:40 by ambuda-bot
This page has not been fully proofread.
निर्व्यापार क्रियोत्पादकं यत्सोपि हेतुरेव । सव्यापार क्रियोत्पादकं तु
करणमेवेति । [घ ] प्राचीननैयायिकमते व्यापारवदसाधारणं कारणम्
( न्या० म० १ पृ० २ ) ( न्या० बो० १ १० ८ ) ( मु० १
पृ० ११८) (त० सं० ) । यथा अनुमितिं प्रति व्यातिज्ञानं करणम्
( सि० च० २ पृ० २५) ( त० दी० २ १० २३) । यथा वा
इन्द्रियं करणं मतम् ( मा० प० लो० ५९ ) इत्यादौ प्रत्यक्षं
प्रतीन्द्रियं करणम् । यथा वा छिदिक्रियां प्रति कुठार: ( त०
कौ०
१० १ पृ० ७ ) । अत्र लक्षणे घंटं प्रति कपालसंयोगवारणाय
व्यापारवदिति । ईश्वरज्ञानवारणायासाधारणेति ( न्या० म० १ पू० २ ) ।
अत्रासाधारणत्वं च कार्यवानवच्छिन्नकार्यतानिरूपितकारणताशालित्वम्
( वाक्य० १ पृ० १०) । अथवा कार्यत्वातिरिक्तधर्मावच्छिन्न कार्यता-
निरूपितकारणताशालित्वम् ( न्या० बी० १ पृ० ८ ) । अत्र प्राचीनाः
व्यापारवत्त्वे सति इति वक्तव्यम् । अतबक्षुः संयोगादौ नातिव्याप्तिः ।
श्रोत्रमनः संयोगः शब्दो वा व्यापारः संभवत्येवेति न श्रोत्रेन्द्रिये करण-
लक्षणाव्याप्तिः इति वदन्ति । नव्यास्तु असाधारणमेव कारणं करणम् ।
यद्विलम्बात्प्रकृतकार्यानुत्पादस्तत्कारणत्वस्या साधारणत्वात्मकतया कालादिषु
तादृशकारणत्वा भावान्नातिव्याप्तिः । व्यापारत्वेनाभिमतेन्द्रियसंयोगादिकमेव
प्रत्यक्षे करणम् इत्याहुः ( नील० १ पृ० १६ ) । वाक्यवृत्तौ ( १ पृ०
१०) तु व्यापारवदिति लक्षणस्य जनकतासंबन्वेन स्वजनकबत्रे सति
स्वासाधारणकारणमित्यर्थ उक्तः । कुठारस्य छिदिक्रियाकरणत्वे कुठार-
दारुसंयोगो व्यापारो बोध्य: (त० कौ० पृ० ७ ) । [ ङ ] नवीन-
नैयायिकमते फलायोगव्यवच्छिन्नं कारणम् (प० च० ) ( नील० २
प० २३ ) ( सि० च० २ पृ० २३ ) ( बै० सा० द० ) । यथा
अनुमिर्ति प्रति परामर्श: करणम् ( त० सं० ) (नील० ) (भवा ० ) ।
यथा वा प्रत्यक्ष इन्द्रियार्थसंनिकर्षः करणम् ( नील० १५० १६) ।
फलायोगव्यवच्छिन्नमित्यस्यार्थश्च फलव्याप्तम् ( १० च० ) इति । तस्य
करणतायां सामानाधिकरण्यं प्रत्यासत्तिः (मवा० ) । यद्विलम्बात्प्रकृत-