This page has not been fully proofread.

म्यावकोशः ।
 
सदनभ्युपगच्छद्भ्यां वादिप्रतिवादिम्यां सदम्युपगमसाहित्यनियतस्य तस्य
प्रवर्तयितुमशक्यत्वात् उत कथकाम्यां प्रवर्तनीयवाग्व्यवहारं प्रति हेतु-
भावात् उत लोकसिद्धत्वात् अथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयाति-
प्रसञ्जकत्वात् । न तावदाद्यः । तदनभ्युपगच्छतोपि चार्वाकमाध्यमिकादे-
र्वाग्व्यवहाराणां सविस्तराणां प्रतीयमानत्वात् । तस्यैव वा अनिष्पत्तौ
भवतस्तन्निरासप्रयासानुपपत्तेः इत्यादि ( वाच० ) । [ ख ] तत्त्वनिर्णय-
विजयएतदन्यतरस्वरूपयोग्यो न्यायानुगतवचनसंदर्भः ( गौ० दृ०
 
१ । २ । १ प्रस्तावना ) । [ग] वादिप्रतिवादिनोः पक्षप्रतिपक्षपरिग्रहः
( सर्व० पृ० २३९ अक्ष० ) । [घ ] विचारसमयः ( ग० अव० ) ।
तिस्रः कथा भवन्ति वाद: जल्पः वितण्डा चेति ( वात्स्या० १।२।४२ )
( गौ० दृ० १९२४२ ) । २ प्रबन्धकल्पनां स्तोकसत्यां प्राज्ञाः कथां
विदुः इति काव्यज्ञा आहुः ( वाच० ) ।
 
कथाभासः – ( जाति: ) यत्र वादिप्रतिवादिम्यां परस्परमसदूषणमुद्भाव्यते
सः । यथा प्रतिषेधेपि समानो दोषः ( गौ० ५/१।३९ ) । शब्दः
अनित्यः प्रयत्नानन्तरीयकत्वादित्यत्र प्रयत्नानन्तरीयकत्वं न शब्दानित्यत्वं
साधयति अनैकान्तिकत्वादिति यो दोषः स स्वत्पक्षेपि तुल्यः प्रयत्नामि-
व्यङ्ग्यत्वस्याप्यसाधकत्वादिति ( गौ० वृ० ५/१/३९ ) । अन्न षट्
पक्षाः प्रवर्तन्ते । तथाहि शब्दः अनित्यः प्रयत्नानन्तरीयकत्वादिति
स्थापनावादिनः प्रथमः पक्षः । प्रत्यत्नकार्यानेकत्वात्कार्यसम इति प्रति-
वादिनो द्वितीयः पक्षः । प्रतिषेधाप्रतिषेधेप्यनैकान्तिकत्वं तुल्यमिति
वादिनस्तृतीयः पक्षः । विप्रतिषेधस्तत्रापि तथैवानैकान्तिकत्वं तत्समान-
दोषोद्भावनं वा चतुर्थः पक्ष: ( गौ० वृ० ५/११४१ ) । प्रतिषेधं
सदोषमम्युपेत्य प्रतिषेधविप्रतिषेधे समानप्रसङ्गो मतानुज्ञा ( गौ०
५॥१॥ ४२ ) इति पञ्चमः पक्षः । स्वपक्षलक्षणापेक्षोपपत्युपसंहारे हेतु-
निर्देशे परपक्षदोषाम्युपगमात्समानो दोषः ( गौ० ५/११४३ ) इति
षष्ठः पक्षः ( गौ० दृ० ५/११४१-४३ ) । अत्र त्रयः पक्षा अपि
संभवेयुः ( गौ० वृ० ५/११४० । कथा तस्याः ढङ्गानि प्राडुबत्वारि
केशन ( ता० र० )।
 
1
 
१९८