2023-02-20 00:53:54 by ambuda-bot
This page has not been fully proofread.
ग्रन्थकृचरितं नाम द्वितीय उपोद्दाता ।
महेश्वरनियोगप्रसादावधिगम्य वैशेषिकदर्शनं प्रणिनाय । वैशेषिकदर्शने चा-
ध्यायदशकम् । प्रत्यध्यायमाहिकद्वयम् । वैशेषिकदर्शनस्य सूत्राणि तु सप्त-
त्यषिकानि त्रीणि शतानि ( ३७०) इति ।
( ३ ) वात्स्यायनः परमर्षिर्यायसूत्राणां भाष्यमकरोत् ।
( ४ ) प्रशस्तपादाचार्यश्च वैशेषिकसूत्रांणां भाष्यमकरोत् । अस्य ( प्र-
किं च -वैशेषिके दर्शनेऽनुमानस्य संक्षेपतो वर्णनात् हेत्वाभासस्य त्रैविध्यकय-
नाचेति 'पूर्व कणादेन पूर्वोक्तविषयस्य रीतिः समुद्भाविता । ततोऽनन्तरमक्षपादेन
विस्तारिता सम्यनिबद्धा च । समानतन्त्रे वैशेषिके प्रतितन्त्र सिद्धान्तसिद्धं नैयायिकस्य
मनस इन्द्रियत्वम्' इति वैशेषिकदर्शनस्य न्यायदर्शनादपि प्राचीनत्वमप्यवगम्यते इति ।
तदेतत्केषचित्प्रकल्पनं चादूरदर्शित्वेन 'कहां रामराज, कहां पोतराज' इति प्राकृतन्या-
यसमाकलितम् इत्यतो वयं सकलसूत्रशास्त्रतात्पर्याकलनादित्थं प्रतीमः महाभारतप्रति-
पादित उलूकर्षिरस्मादुलूकनाम्नः कणादाद्भिन एव । 'महद्दीर्घबद्वा' इत्यादिब्रह्मसूत्राणां तु
अनादिसिद्धवैशेषिकमतखण्डनपरत्वमेव न त्वर्वाचीनकणादर्षिप्रणीतसूत्रार्थखण्डनपरत्वम् ।
एवमेव जैमिनिमीमांसादर्शनस्यापि तात्पर्यमुन्नेयम् । रावणस्तु कश्चनर्वाचीन ब्राह्मण एव
न तु श्रीरामद्वेष्टा रामायणप्रतिपाद्यः पौलस्त्यः इति । न केवलं हेत्वाभासत्रैविध्यरूपसं-
क्षेपकथनेनैव न्यायदर्शनात्प्राचीनत्वं कणाददर्शनस्य संभवति । यतो विपरीतमपि वक्तुं
शक्येत । तथा हि —–'न्यायदर्शने हेत्वाभासानां पञ्चत्वं प्रथमतः प्रतिपादितम् तदनन्तरं
कणादेन पञ्चत्वं परित्यज्य हेत्वाभासस्य युक्त्या संक्षेपतो वा त्रैविष्यं प्रतिपादितम्' इत्यपि
वक्तुं शक्यते इति । तस्मात् 'ब्रह्मसूत्रम् जैमिनिमीमांसासूत्रम् न्यायसूत्रम् वैशेषिक
सूत्रम् सांख्यसूत्रम् योगसूत्रम्' इत्येवं क्रमेण सूत्राणि संबभूवुः इति ममाभिमतिः ।
४ 'दर्शनान्तरकारैरनजीकृतस्य 'विशेष' पदार्थस्याङ्गीकारादस्य वैशेषिकतया प्रसिद्धिः'
इति केचिद्वदन्ति । वस्तुतस्तु – "द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न
स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः" इति ।
५ भाष्यलक्षणं च "सूत्रार्थो वर्ण्यते येन पदैः सूत्रानुसारिभिः । खपदानि च वर्ण्यन्ते
भाष भाष्यविदो विदुः" इति ।
६ केचि चौधायनसूत्रे प्रवराध्याये आशिरसगणान्तः पातिशारतगणे पठितः
'प्रशस्तः' इत्येनममन्यन्त । अन्ये तु – 'प्रवररन'अन्ये आशिरसगणे गौतमवर्गे पठितः
'प्रशस्खः' इति प्रशस्तनामानमेनं मेनिरे ।
७ अत्र —'वैशेषिकसूत्राणां भारद्वाजवृत्तिर्गङ्गाधर कविरलकविराजकृताऽखि इति
श्रूयते । अम्ये तु भारद्वाजनाम्नोद्योतकराचार्येणेयं वृत्तिः कृता इत्याहुः । अन्येतु-
'उद्योतकराचार्यस्यैव 'भारद्वाज' इति नाम तेन कृता वृत्तिर्भास्त्राजवृत्तिः' इति मन्यन्ते ।
4 न्या. को.