This page has not been fully proofread.

न्यायकोषः ।
 
कक्षः – शिक्यतलम् ( मिताक्षरा २।१०२) ।
 
-
 
१९७
 
कठिनत्वम् – १ अवयवसंयोगविशेषः ( त० दी० १ पृ० ६ ) ( त०
मा० पृ० २७) । यथा गण्डाभोगात्कठिनविषमामेकवेणीं करेण
(मेघ० उ० ३१ ) इत्यादौ । २ स्पर्शविशेषः ( सि० च० ) । यथा
काठिन्यादि क्षितावेव ( भा०प० लो० १०५) इत्यादौ पृथिवीमात्र-
वृत्ती कठिनसुकुमारस्पर्शी (मु० गु० पृ० १९७ ) । द्रव्यस्यारम्भक-
संयोगविशेषात्स्पर्श विशेष इति केचित् । गुणान्तरमिति केचिदाहुः ।
अकठिनैरपि तन्तुभिरारचय इति ( न्या० ली० पृ० ५० ) । ३ शब्दा-
देस्तु दुर्बोधत्वमेव काठिन्यम् । ४ हृदयादेव काठिन्यं तु अवच्छेदकता-
संबन्धेन दयाया अभाव एव इत्यादिकं स्वयमूह्यम् ।
 
-
 
कणाद: - १ वैशेषिकसूत्रकारः कश्यपगोत्रजः ऋषिविशेषः । स च
अथातो धर्मे व्याख्यास्यामः इत्यारम्य तद्वचनादाम्नायस्य प्रामाण्यम्
इत्यन्तं दशाध्यायात्मकं वैशेषिकदर्शनाख्यं तर्कशास्त्रं प्रणिनाय । तन्मते
सप्त पदार्था इत्यायस्मिन् कोशे मुंपादितमेव । अधिकं तु दर्शनशब्द-
व्याख्याने द्रष्टव्यम् । २ स्वर्णकार इति काव्यज्ञाः ( वाच० ) ।
 
कथा – १ [ क ] नानाबक्तृकः पूर्वोत्तरपक्षप्रतिपादकवाक्यसंदर्भः ( त०
भा० पृ० ४४ ) ( त० दी० पृ० ४३ ) । एकेन पूर्वपक्षः क्रियते ।
अन्येन समाधानम् । एवं क्रमेण नानाकर्तृकत्वं वाक्यसमूहस्यावसेयम्
( नील० पृ० ४३ ) । कथाधिकारिणस्तु तस्वनिर्णयविजयएतदन्य-
तराभिलाषिणः सर्वजनसिद्धानुभवानपछापिनः श्रवणादिपटव: अकलह-
कारिणः कथौपयिकव्यापारसमर्थाः ( गौ० वृ० ११२।१ प्रस्तावना ) ।
कथकस्य कथायां नियमविशेषः खण्डने दर्शितः । यथा अथ कथायां
बादिनो नियममेतादृशं मन्यन्ते प्रमाणादयः सर्वतन्त्रसिद्धान्ततया सिद्धाः
पदार्थाः सन्तीति कथकाम्यामम्युपेयम् इति । तदपरे न क्षमन्ते ।
तथाहि प्रमाणादीनां सत्वं यदम्युपेयं कथकेन तत् कस्य हेतोः । किं