This page has not been fully proofread.

१९६
 
न्यायकोशः ।
 
औदार्यम् – सन्मार्गवर्तिनी बुद्धि: ( न्यायक० १० १० ) । दानशीलत्वम्
 
इति काव्यज्ञा आहुः ।
 
औपनिधिकम् —–वासनस्थमनारूयाय हस्ते न्यस्य यदर्प्यते । द्रव्यं तदौप-
निधिकं प्रतिदेयं तथैव तत् ॥ ( याज्ञ० २/६५ ) ।
 
-
 
औपशमिकः - अनुदयप्राप्तिरूपे कर्मण उपशमे सति जीवस्योत्पद्यमानो
भावः । यथा पके कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादधः पतिते
जलस्य स्वच्छता (सर्व० सं० पृ० ६८ आई० ) ।
 
औपादानिकः - अनुपपत्तिज्ञान सहकृतशब्दजनितो बोधः । अत्र व्युत्पत्तिः ।
उपादानम् अनुपपत्तिज्ञानम् । तत्सहकृतशब्देन जनितो बोधः औपादा-
निकः इति ( तर्कप्र० ख० ४ पृ० ११२ ) । यथा प्राभाकराणां मते
स्वर्गकामो यजेत इत्यादिवाक्यात् स्वर्गसाधनं स्वर्गकामनियोज्यको यागः
स्वर्गकामकृतिसाध्यः इत्यौपादानिको बोध उत्पद्यते इत्यादौ ग्रन्थे औपा-
दानिकशब्दस्यार्थः । केचित्तु अनुमित्यात्मको बोध औपादानिक इत्याहुः
( तर्कप्र० ख० ४ पृ० ११३ ) ।
 
औपाधिकः - उपाधिकृत औपाधिकः । यथा न स्वभावतो बद्धस्य मोक्ष-
साधनोपदेशविधिः ( सां० सू० ) इत्यादौ जीवस्य बन्ध औपाधिकः न
नैमित्तिकः नापि तात्त्विक इत्यत्र (वाच० ) । यदुपाभ्यवच्छिनशक्तिमन्नाम
तदौपाधिकम् । यथा आकाशपश्वादि ( श० प्र० पृ० २५ २६ ) ।
औपाधिकी – (संज्ञा ) या अनुगतोपाध्यवच्छिन्नसंकेतवती संज्ञा सा । यथा
भूतदूतादिः । अत्र सा हि संज्ञा सचेतनावृत्तिविशेषगुणवत्त्वम् वार्ताहार-
कत्वम् इत्याद्यनुगतोपाधिपुरस्कारेणैव प्रवर्तते ( श० प्र० पृ० २५ ) ।
 
औलूक्य: वैशेषिकसूत्रकारः कणादः । अत्र व्युत्पत्ति: उलूकस्म तना-
मकस्य ऋषेरपत्यमौलुक्यः इति ( वाच० ) । विस्तरस्त कणादशब्दे
द्रष्टव्यः ।
 
औष्ण्यम् – उष्णस्पर्श: ( राम० १५० ७० ) ।