This page has not been fully proofread.

न्यायकोशः ।
 
१९५
 
-
 
ऐकान्तिकः - १ एकमात्रव्याप्तिप्राहकसहचारो यत्र सः ( गौ० दृ०
१।२।५ ) । यथा अनैकान्तिक इत्यादावैकान्तिकः । यथा वा वहिमान्
धूमादित्यादौ घूम ऐकान्तिकः । अत्र व्युत्पत्तिः एकस्य साभ्यस्य तद
भावस्य वा योन्तः सहचारः अव्यमिचरितसहचारः तस्यायमित्यै-
कान्तिकः इति । २ अवश्यंभावीति सांख्यवेदान्तिनः ( वाच० ) ।
ऐतिहाम्-[क] इति होचुः इत्यनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यम् ( वात्स्या ●
२१२११ ) । [ ख ] अनिर्दिष्टप्रवक्तृकं परंपरागतं वाक्यम् । यथा
घंटे बटे यक्षः इत्यादि । तद्धि इति होचुरियनेन प्रकारेण उच्यते
( गौ० दृ० २१२ । १ ) । [ग] अज्ञातमूलवक्तृकः शब्दः । विशिष्या-
निश्चितप्रथमवक्तृकः शब्द इत्यर्थः ( नील० पृ० ३४ ) । यथा इह
वटे यक्षस्तिष्ठति इति ( त० दी० पृ० ३४ ) । ऐतिहां प्रमाणान्तरमिति
अष्टप्रमाणवादिनः पौराणिका ( म०प्र० पृ० ६५ ) ( नील० पृ०
३४ ) । तत् प्रमाणान्तरं नेति नैयायिकसांख्यादयः प्राहुः । अत्रेदं
बोध्यम् । तदेतदैतिधमाप्तोक्तं चेच्छन्दान्तर्भावादनुमानमेव । न चेत्
प्रमाणमेव न भवतीति ( त० व० पृ० १०० ) ( न्या० म० २
पृ० ३२ ) ( नील० पृ० ३४ ) ।
 
6
 
ऐन्द्राग्नम् –(नक्षत्रम्) विशाखा ( पुरु० चि० १० ३५३) । विशाखा-
नक्षत्रस्येन्द्राग्निदेवताकत्यादैन्द्राममिति संज्ञा ।
 
-
 
ऐशानी – ( दिक् ) सुमेरुसंनिहिता उदयगिरिसंनिहिता च दिक् ( वै०
वि० २१२।१० ) । यथा झळकीप्रामत ऐशान्यामक्कलकोटग्रामः ।
 
ओ.
 
ओषधिः --फलपाकावसानाः शालिप्रभृतगः ( मिता० २१ २२९ ) ।
औ.
 
१)।
 
औग्र्यम् – आत्मन्युस्कर्षप्रत्ययः (न्या० बा० पृ० १ ) ।
औदायिकः कर्मोदये सति भवन्भाव औदयिकः ( सर्व० सं० १० ६८
आई० ) ।