This page has not been fully proofread.

न्यायकोवः ।
 
त्पत्तिकतेमैनत्वावच्छेदेन मैत्रपक्ष्यमाणत्वायोगब्यवच्छेदः प्रतीयते । चैत्रो
जलमेव मुझे इत्यादौ चैत्रो जलान्यभोजनकर्तृत्वव्यवच्छेदवान् जलकर्मक-
भोजनकर्तृत्ववांध इति बोधः । अत्र नव्यास्त्वेवमाडुः । एवकारस्य अन्य-
योगव्यवच्छेद एक एवार्थः । पृथिव्यामेव गन्धः इत्यादौ सप्तम्या
वृत्तित्वमर्थः । अन्ययोगश्चान्यसमवेतत्वादिः । तेन पृथिवीसमवेतत्वम्
पृथिव्यन्यसमवेतत्वव्यवच्छेदचार्यो बोभ्यते । वह्निमत्येव धूमः इत्यादौ
घूमे वह्निमत्संयुक्तत्वम् वह्निमदन्यसंयुक्तत्वव्यवच्छेदश्च प्रतीयते । घटत्वा-
भाववत्येव द्रव्यत्वामावः इत्यादौ द्रव्यत्वाभावे घटत्वाभाववद्भिजवृत्तित्व-
ब्यवच्छेदः घटत्वामावषद्वृत्तित्वं च प्रतीयते । पक्षधरमिश्रास्त्वेवमाडुः ।
व्यवच्छेदमात्रं एवकारार्थः । पृथिव्यन्यसमवेतत्वादौ सप्तम्यादीनामेव
लक्षणा इति । वस्तुतस्तु अन्ययोगव्यवच्छेद एवकारार्थः । व्यवच्छेदश्चा-
त्यन्ताभावः अन्योन्याभाषश्च । पृथिव्यामेव गन्धः इत्यादौ पृथिव्यां
गन्धः पृथिव्यन्यस्मिन्गन्धाभावश्च इति बोषः । शङ्ख पाण्डुर एव
इत्यादौ शङ्खतादात्म्यवान् पाण्डुरः पाण्डुरान्यस्मिञ् शान्योन्याभावश्च
इति बोध: । पार्थ एव धनुर्धरः इत्यादौ पार्थतादात्म्यवान् धनुर्धरः
पार्थान्यस्मिन्धनुर्धरत्वब्यवच्छेदक्ष प्रतीयते इति । स्वतन्त्रास्त्वेवमाहुः ।
एवकारो न कुत्रापि शक्तः । किंतु तात्पर्यग्राहकः । पृथिव्यामेष इत्यादौ
च कुत्रचित्पदे लक्षणया पृथिव्यन्यसमवेतत्वव्यवच्छेदः प्रतीयते इति ।
२ सादृश्यम् । ३ अनियोगः । ४ आचारनियोगः । ५ विनिग्रहः ।
६ परिभवः । ७ ईषदर्थः इत्यादि काव्यज्ञा आहुः ।
एवणासमितिः - द्विचत्वारिंशता मिश्रादोषैर्नित्यमदूषितम् । मुनिर्यदन्न-
मादत्ते सैषणासमितिर्मता ॥ ( सर्व० सं० पृ० ७९ आई० ) ।
 
-
 
ऐ.
 
158
 
ऐकाधिकरण्यम् सामानाधिकरण्यम् । यथा साध्येन हेतोरैकाधिकरण्यं
व्याप्तिरुच्यते ( भा०प० २ को० ७० ) इत्यादौ साभ्यहेत्वोः सामाना-
घिकरण्यम् ।
 
१ वेमनं न्यशने क्लेदे इति विश्वलोचनकोशः ( नान्टव ७१ ) ।