2023-02-20 00:54:39 by ambuda-bot
This page has not been fully proofread.
१९३
इत्यादी प्रहधातोर्ज्ञानमर्थ: । द्वितीयाया विषयत्वमर्थः । आख्यातस्य
जनकत्वमर्थः । तथा च रूपविषयकज्ञानजनकं चक्षुः इत्यन्वयबोधः ।
ज्ञानं रजतं गृह्णात्येव इत्यादिप्रयोगो भवत्येव । यदि च न भवतिं तदा
ज्ञानेनाओं गृह्यत एव इत्यादौ ज्ञानस्वावच्छेदेनार्थग्राहकत्वायोग व्यवच्छे-
दोर्यो बाभ्यः इति ज्ञानेन रजतं गृह्यत एव इत्यादौ ज्ञानत्वावच्छेदेन
रजतत्वप्रकारकत्वायोगव्यवच्छेदबोधस्यासंभवेन तथाविधप्रयोगो न भवति
इति बोध्यम् । रूपं पृथिव्यां वर्तत एव इत्यादौ सप्तम्या निरूपितत्वमर्थः ।
धातोर्वृत्तिरर्थः । आयातस्याश्रयत्वमर्थः । तथा च पृथिवीनिरूपित-
वृत्याश्रयत्वायोगव्यवच्छेदवद्रूपम् इत्यन्वयबोधः । अत्र च रूपत्वसामाना-
धिकरण्यमात्रेणान्वयः इति विज्ञेयम् । रूपेण पृथिवी व्यावर्त्यत एव
इत्यादौ रूपे पृथिवीनिरूपितधात्वर्थव्यावृत्त्ययोगव्यवच्छेदः प्रतीयते ।
आत्मनैव ज्ञायते इष्यते क्रियते इत्यादौ आत्मवृत्तित्वायोगव्यवच्छेदः
प्रतीयते । अत्र आत्मपदोत्तरतृतीयाया वृत्तित्वमर्थः । ऋतौ स्वदारान्
गच्छेदेव इत्यादौ सप्तम्या अवच्छेद्यत्वमर्थः । एवार्थश्चायोगव्यवच्छेदः ।
विध्यर्थश्चेष्टसाधनत्वम् । इष्टं च प्रत्यवायाभावरूपम् । द्वितीयार्थः कर्म-
त्वम् । तथा च ऋतुकालावच्छिन्न स्वदारकर्मकाभिगमनायोगव्यवच्छेदः
प्रत्यवायाभाव साधनम् इत्यन्वयबोधः । अत्र यस्यायोगव्यवच्छेदः प्रत्यवा-
याभावहेतुत्वेन विधिबोधितः स प्रत्यवायजनकाभावप्रतियोगी इति व्याप्ति
स्वीकारेण तादृशामिगमनाभावस्य प्रत्यवायहेतुत्वसिद्धिः । ननु च ऋतु-
कालावच्छि मखदार कर्मकामिगमनाभावस्य सामानाधिकरण्येन प्रत्यवाय
हेतुत्वं वाध्यम् । तथा च यस्यां कस्यामपि निशि ऋताबभिगन्तुः पुरुषस्य
ऋत्यन्तराभिगमनाभावेपि प्रत्यवायो न स्यात् । एवं नानादारवतः प्रभोः
दारान्तराभिगमनाभावेपि प्रत्यवायो न स्यात् इति वेत् अत्र वदन्ति । तत्त-
हतुकालावच्छिन्नतत्तद्दारकर्मकत्व तत्वत्पुरुषकर्तृकत्वएतदुभयाभाववदभिग-
मनसामान्यस्य तचत्पुरुषीयतादृशप्रत्यवायं प्रति हेतुता इति विशिष्य
पुरुषभेदेनैव कार्यकारणभावः कल्प्यते इति । इह भवने मैत्रेणैव पक्ष्यते
तेमनम् इत्यादौ यवनपदोत्तरसप्तम्या उत्पत्तिरर्थः । तथा च एतद्भवनो-
२५ म्या० को०