This page has not been fully proofread.

१९२
 
न्यायकोचः ।
 
धिकरण्येन सरोजे नीलभवनकर्तृत्वात्यन्तायोगव्यवच्छेदो बोभ्यते
( म० प्र० पृ० ७) । यद्वा सरोजे नीलत्वात्यन्तायोगो व्यवच्छिद्यते
( वाच० ) । केचित्तु यावत्सरोजनिष्ठात्यन्ताभावप्रतियोगित्वव्यवच्छेदो
नीलभवनकर्तृत्वादौ प्रतीयत इत्याहुः (प० मा० ) । नव्याः शिरो-
मणिभट्टाचार्य प्रभृतयस्तु सर्वत्रन्ययोगव्यवच्छेदेनैवोपपत्ताबयोगव्यव
च्छेदात्यन्तायोगव्यव च्छेदौ न स्वीकार्यावित्यवीबदन् ( म० प्र० १
पृ० ७-८ ) । परमप्राचीनमते तु एवकारार्थो द्विविधः । अयोगव्यव
च्छेदः अन्ययोगव्यवच्छेदश्चेति । तत्रायोगव्यवच्छेदो द्विविधः केवला-
योगव्यबच्छेदः अत्यन्तायोगव्यवच्छेदश्च । यत्रान्वयितावच्छेदकसामाना-
धिकरण्यमात्रेणायोगव्यवच्छेदः प्रतीयते यथा नीलं सरोजं भवत्येव इत्यादौ
तत्रात्यन्तायोगव्यबच्छेदपरिभाषा । यत्र चान्वयितावच्छेदकावच्छेदेना-
योगव्यवच्छेदः प्रतीयते यथा शङ्खः पाण्डुर एव इत्यादौ तत्र केवळा-
योगव्यवच्छेदपरिभाषा । अन्ययोगव्यवच्छेदस्तु पार्थ एष धनुर्धरः
इत्यादावेवकारार्थः । एवम् अन्यान्यपि अन्ययोगब्यवच्छेदस्योदाहरणा-
न्यूह्यानि । तत्र जातिमत्येव सत्ता इत्यादौ सत्तापदेन लक्षणया तद-
धिकरणत्वमर्थः । तथा च सत्ताधिकरणत्वे जातिमदन्यवृत्तित्व व्यवच्छेदः
प्रतीयते । अथवा जातिमत्येव सत्ता इत्यादौ सप्तम्या निरूपितत्वमर्थः ।
तथा च सत्ता जातिमन्त्रिरूपितसमवायप्रतियोगिनी सत्तासमवाये जाति-
मदन्यानुयोगिकत्व व्यवच्छेदश्च इत्युभयान्वयविषयकसमूहालम्बनबोधः ।
एवकारस्य अयोगव्यवच्छेदार्थकत्वे त्वन्यान्युदाहरणानि । ज्ञानमय
गृह्णात्येव इत्यादौ ग्रहधातोर्विषयित्वमर्थः । आख्यासस्याश्रयत्वमर्थः ।
निरूपितत्वं द्वितीयार्थः । तथा च ज्ञानम् अर्थनिरूपितविषयित्वा-
श्रयत्ववत् अर्थनिरूपित विषयित्वाश्रयत्वायोगव्यवच्छेदवच्च इत्यन्वयबोधः ।
अत्र अयोगव्यवच्छेदोन्वयितावच्छेदकज्ञनात्वावच्छेदेन प्रतीयते न तु
सामानाधिकरण्यमात्रेण इति विज्ञेयम् । द्विजो वेदानधीत एष इत्यादी
द्विजत्वावच्छेदेन वेदकर्मकाभ्ययन कर्तृत्वायोगव्यवच्छेदो बोभ्यते । अत
एब मरो वेदानधीत एव इत्यादिप्रयोगवारणम् । चक्षू रूपं गृह्णायैव