This page has not been fully proofread.

न्यायकोशः ।
 
श्वशुरपदे स्त्रीजनकदंपत्योर्मर्तृजनकदंपत्योर्वा लक्षणा (दि०४ ) । जनक-
शरीरत्वेन प्रातिस्विकरूपेण वा बोधः (त० प्र० ख० ४ पृ० ५३ ) ।
भ्रातरौ पुत्रौ च इत्यादौ स्वसा च भ्राता च भ्रातरौ दुहिता च पुत्रश्च पुत्रौ
इति विग्रहौ । भ्रातृपुत्रौ स्वसदुहितृभ्याम् (पाणि० ११२/६८ ) । इत्यनेन
सूत्रेणैकशेषौ च बोध्यौ । शिवौ इत्यत्र शिवा च शिवश्व इति विग्रहः ।
पुमान्स्त्रिया ( पाणि० १।२।६७ ) इत्यनेन सूत्रेणैकशेषश्च बोभ्यः ।
भ्रातरावित्यत्र भ्रातृपदेन भ्रातृस्वसारौ सोदरत्वेन पुत्रावित्यत्र पुत्रपदेन
च स्वापत्यत्वेन पुत्रदुहितरौ लक्ष्येते ( त० प्र० ख० ४ पृ० ५३ ) ।
शिबावित्यत्र शिवपदं शिवदुर्गान्यतरत्वेन बोधकम् इति प्राश आहुः ।
शक्त्या शिवत्वेन लक्षणया च शिवाया बोधकम् इति तु नव्या आहुः
( त० प्र० ख० ४ पृ० ५३ ) ।
 
-
 
एकान्तः – १ अव्यभिचारः । यथा अनैकान्तिक इत्यादावेकान्तः । २
नियमः । यथा न ताबदयमेकान्तेनाविषयः ( शारी० भा० ) इत्यादौ ।
एकार्थसमवायः -[ क] स्वसमवायिसमवेतत्वम् (सि० च०) । [ ख ]
एकस्मिन्नर्थे समवायेन सत्त्वम् ( नील० १ पृ० ६ ) । यथा एकं
रूपमित्यादावेकत्वरूपयोरेकार्थसमवायः ( त० दी० १ पृ० ६ ) ।
एकेन्द्रियग्राह्यगुणत्वम् – एकेन्द्रियग्राचजातिमद्गुणत्वम् ( ३० व० पृ०
३६ ) । एकमात्रेन्द्रियप्राह्मगुणास्तु रूपम् रसः गन्धः स्पर्शः शब्दः
बुद्धिः सुखम् दुःखम् इच्छा द्वेषः प्रयत्नः वेगश्चेति ।
 
-
 
एकैकवृत्तिगुणत्वम् ~ [ क ] स्वसमानाधिकरणान्योन्याभाषप्रतियोगितान-
बच्छेदकैकत्वकत्वे सति गुणत्वम् । एकैकवृत्तिगुणाच रूपादिचतुष्टयम्
एकत्वम् परिमाणम् एकपृथक्त्वम् परत्वादिसंस्कारान्ताः पञ्चदश चेति
द्वाविंशतिर्गुणाः (मु० गु० पृ० १९२ ) । [ख] स्वाश्रयान्योन्या-
भावव्यापकात्यन्ताभावप्रतियोगिगुणत्वम् ( दि० गु० पृ० १९२ ) ।
तदर्थश्च स्वम् रूपादिव्यक्तिः । तस्याश्रयः तटः । तत्प्रतियोगिकोन्योन्या-
भावः तद्धटमेदः । तस्य व्यापकोत्यन्ताभावः तादृशरूपादिव्यत्तयत्यन्ता