2023-02-20 00:54:38 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
वाक्यैकवाक्यं चेति । तन्नाचं यथा सोरोदीदित्याद्यर्थबादसमुदायस्य
पदस्थानीयतया विधिपदेनैकवाक्यता । द्वितीयं यथा यत्र प्रत्येकं भिन्न-
भिन्नसंसर्गप्रतिपादकयोर्षाक्ययोराकाङ्घावशेन महावाक्यार्थबोधकत्वम् तत् ।
यथा दर्शपौर्णमासाभ्यां स्वर्गकामो यजेत इत्यादिवाक्यानां समिधो यजति
इत्यादिवाक्यानां च परस्पराङ्गाङ्गिभावबोधकतयैकवाक्यता ( वाच० ) ।
[ङ ] अर्थैकत्वादेकं वाक्यं साकाङ्क्ष चेद्विभागे स्यात् । अस्यार्थः । विभागे
वाक्यघटकपदानां विभागे साकाइमेकपदरहितस्यापरपदस्य शाब्दबोधा-
जनकत्वं तयोरेवार्थेकत्वम् एकफलप्रतिपादकत्वम् । विभागे साकाङ्क्षवे
सत्येकफलप्रतिपादकं यत्तदेकं वाक्यमित्यर्थः (जै० सू० वृ० २/११४४ ) ।
२ अविसंवादिवाक्यत्वमेकवाक्यत्वम् । यथा श्रवणकटु नृपाणामेक-
वाक्यं विव: ( रघु० ६/८५ ) इत्यादौ इति काव्यज्ञा वदन्ति ।
एकविशेषबाघः - इतरबाधग्रहवदस्यार्थोनुसंधेयः ।
एकशेषः - (वृत्तिः ) व्याकरणशास्त्रसिद्धो वृत्तिविशेषः । एकशेषो द्विविधः
सरूपैकशेषः विरूपैकशेषश्च । तत्र सरूपैकशेषो घटौ घटाः इत्यादौ ।
विरूपैकशेषस्तु वक्रदण्डौ पितरौ श्वशुरौ भ्रातरौ पुत्रौ शिवौ इत्यादौ ।
अत्रायं वैयाकरणानां नियमः यः शिष्यते स लुप्यमानार्थाभिधायी इति
विज्ञेयः । अत्र सरूपाणा मेकशेष एकविभक्तौ (पाणि ० १ २ ६४ )
इत्यनेन सूत्रेण घटश्च घटश्च घटौ इत्येकशेषो बोभ्यः । वकदण्डावित्यत्र
विरूपाणामपि समानार्थानामित्येकशेषः । अत्र लक्षणया वक्रदण्डश्च
कुटिलदण्डश्च इति बोधः । विग्रहोप्येवमेव । पितरौ इत्यत्र जनकशरीर-
स्वेन मातापित्रोरवगमाच्छक्त्या पितुर्बोधः । लक्षणया च जनकत्रीत्वेन
रूपेण मातुर्बोधः । विभत्तयुपनीतं पुंस्त्वं तु पितर्येवान्वेति इति प्राथ
आदुः । नव्यास्तु एकयैव लक्षणया पितृत्वमातृत्वाभ्यां बोधकं पितृ-
पदम् इत्याहु: ( त० प्र० ख० ४ ५० ५३ ) । अत्र माता च पिता
च पितरौ इति विग्रहः । पिता मात्रा ( पाणि० १ । २।७० ) इत्यनेन
सूत्रेणैकशेषो बोभ्यः । श्वशुरौ इत्यत्र श्वशुरः श्वळवा (पाणि ० १ । २।७१)
इत्यनेन सूत्रेणैकशेषो बोभ्यः । श्वश्रूध श्वशुरभ इति विग्रहः । अत्र
१८९