This page has not been fully proofread.

न्यायकोचः ।
 
धिकरणभोजनाभावे सति अष्टममुहूर्तोत्तरार्षादिसार्धमुहूर्तात्मकावयवाधि-
करणं भोजनमेकभक्तमिति निष्कर्षः ।
 
एकमात्रवृत्तिगुणत्वम् – एकत्वावच्छिन्नवृत्तिकगुणत्वम् (ल० व० पृ०
३६ ) । इदं चैकैकवृत्तिगुणत्वमित्यप्युच्यते ।
एकमात्रवृत्तित्वम् – स्वाश्रयनिष्ठमेदाप्रतियोग्याश्रयकत्वम् ( राम० १
प० ३५ ) । यथा आकाशत्वस्यैकमात्रवृत्तित्वम् । अत्र मेदश्च व्यासज्य-
वृत्तिधर्मानवच्छिन्नप्रतियोगिताकत्वेन विशेषणीयः (राम० १५० ३५ ) ।
स्वप्रतियोगिष्वृत्तित्वस्वासमानाधिकरण्यएतदुभयसंबन्धेन मेदविशिष्टान्यत्व-
मिति निष्कर्षः । इदं च आकाशत्वादेर्जातित्वे बाधकम् ।
एकवाक्यत्वम् – १ [ क ] विशिष्टैकार्थप्रतिपादकत्वम् ( ग० २ अव०
पृ० २) । निरूप्यनिरूपकभावापन्नविषयताशालिबोषजनकत्वमित्यर्थः ।
यथा देवदत्तो प्रामं गच्छतीति वाक्यस्यैकवाक्यत्वम् । [ ख ] तत्प्रयोज्य-
विषयतया साक्षात्परंपरया वा निरूपिता या विषयता तत्प्रयोजकत्वम्
( ग० व्यु० का० १ पृ० २७ ) । अत्र तत्पदजन्यज्ञाननिरूपितत्वेन
तत्पदप्रयोज्यत्वव्यवहारो विषयतायामिति बोध्यम् । अत्र विशेष्यताद्वय-
निरूपितैकप्रकारताशालिज्ञानजनकवाक्ययोरेव एकवाक्यत्वम् इति नियमो
ज्ञेयः ( कृष्ण ० ) । [ग] तदुत्थाप्याकाङ्क्षानिवर्तकत्वतभिवर्तनीया-
काङ्क्षोत्थापकत्वएतदन्यतरवत्त्वम् ( ग० २ अव० पृ० २ ) । यथा
प्रतिज्ञादिपञ्च वाक्यैरे कवाक्यतया स्वार्थविशिष्टज्ञानं जन्यते ( चि०२
अव० पृ० ७६ ) इत्यादौ प्रतिज्ञादीनां पञ्चानामवयवानामेकवाक्यत्वम् ।
तदुत्थाप्याकाङ्घानिवर्तकत्वं च तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या आकाहा
तत्प्रतियोगिकनिवृत्तिजनकज्ञानजनकत्वम् । इदं च हेतूदाहरणादीनामेक-
वाक्यत्वम् । अत्र तत्पदं प्रतिज्ञापरम् । तन्निवर्तनीयाका हत्यापकत्वं च
तत्प्रतिपाद्यार्थविषयकज्ञानजन्या या निवृत्तिः तत्प्रतियोग्याकाशाजनक-
ज्ञानजनकत्वम् । इदं च प्रतिज्ञादीनामेकवाक्यत्वमित्यवधेयम् । अत्र तु
तत्पदं हेत्वादिपरम् । [ ] स्वभिन्नत्वस्वानवच्छिमत्वस्वसामानाधि-
करण्यरतत्रितयसंबन्धेन विषयताविशिष्टविषयताशून्यबोधजनकवाक्यत्व-
मित्यस्मगुरुभिकुशास्त्रिचरणाः प्रादुः । एकवाक्यं द्विविधम् । पदैकवाक्यम्
 
१८८