2023-02-20 00:54:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१८७
एकदेशान्वयः समस्तादसमस्ताद्वा पदादुपस्थितस्यार्थस्य घटको योर्थः
तेन सह तादृशपदार्थाघटकपदार्थान्वयः । यथा चैत्रस्य पितेत्यादौ ।
अत्र समस्तादित्यत्र समासः वैयाकरणसंमतानां कृत्तद्धितैकशेषसनाद्यन्ता-
नामषशिष्टानां चतसृणां वृत्तीनामुपलक्षणम् इति ज्ञेयम् । चैत्रस्य
पितेत्यत्र जनकत्वविशिष्टपुंसः पितृपदार्थत्वेन तदेकदेशेन जनकत्वेन सह
चैत्रपदार्थस्य निरूपितत्वसंबन्धेनान्वयादेकदेशान्वयो ज्ञेयः । अत्रेदं
बोध्यम् । पदार्थः पदार्थेनैवान्वेति न तु पदार्थैकदेशेन इति नियमोस्ति ।
परंतु ससंबन्धिकस्थल एकदेशेप्यन्वय स्वीकारात्तादृशनियमोपवाद्य एवेति ।
एकस्मिन् दृष्टे श्रुते वा अपरसंबन्धिनः स्मरणं ससंबन्धिकपदार्थः ।
यथा हस्तिहस्तिपकादिरिति ( म० प्र० ४ पृ० ४८ ) 1 अथवा
नित्यसाका ससंबन्धिकपदार्थः । यथा चैत्रस्य गुरुकुलम् मैत्रस्य दास-
भार्येत्यादौ गुरुत्वदासत्वादौ चैत्रमैत्रपदार्थयोरन्वयस्य नित्यसाकाङ्क्षत्वेनैक-
देशान्वयः सह्यत एव इति । तथा च चैत्रस्य पितेत्यादावेकदेशान्वयो
युक्त एव ( न्या० म० ४ पृ० १४)।
एकपदत्वम् - [क] एकार्थविषयकशक्तिनिरूपकत्वम् । यथा राम इति
पदस्यैकपदत्वम् । अत्र व्युत्पत्तिः एकं पदं पदोच्चारणयोग्यकालो यत्र
तस्य भाव इति ( वाच० ) । अत्रार्थनिष्ठमेकत्वं च तदितरावृत्तिस्त-
व्यक्तित्वादिरूपोसाधारणधर्म एवेति न काचिदनुपपत्तिरिति । [ ख ]
शक्तिनिरूपका भाव व दुसरत्वे सति शक्तिनिरूपकत्वम् । यथा घट इत्यस्यै-
कपदत्वम् । [ग ] अखण्डपदत्वमिति शाब्दिका वदन्ति । अत्रा-
खण्डत्वं च पदत्वाभाव बदुत्तरखण्डकत्वम् ।
-
-
एकप्रसरताभङ्गः - (दोषः ) एकस्यां वृत्त या प्रसरता घटकतया प्रविष्टता ।
अत्र चोद्देश्यविधेयभावाप्रतीतिः ( मी० न्या० पृ० ३७ ) ।
एकभक्तम् – दिनार्धसमयेतीते भुज्यते नियमेन यत् । एकभक्तमिति प्रोक्त-
मतस्तरस्यादिचैव हि ॥ ( पु० चि० हे० स्का० पृ० ४३ ) । न्यूनं
प्रासत्रयेण तु इति चतुर्थचरणे पाठान्तरम् । तदहोरात्राबयवान्तरा-