2023-02-20 00:54:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
एकत्वम् – (संख्या) [क] एकम् इति प्रतीतिविषयो गुणविशेषः
यथा गगनमेकम् काल एक इत्यादावेकरबम् । रूपरसगन्धस्पर्श व्यतिरेका-
दर्यान्तर मेकत्वम् ( वै० ७ १२११ ) इत्येवमेकत्वस्य सूत्रकृता अर्थान्तर-
त्वमुक्तम् । [ख ] घीविशेषविषयत्वम् । यथा एकः समवायः एकः
अभाव इत्यादौ समवायादीनामेकत्वम् ( वै० वि० ७१२।१ ) । [ग]
स्वरूपामेद इति भूषणमतम् ( वै० उ० ) ( वै० वि० ७७२।१ ) ।
यथा घटगतमेकत्वं घटस्वरूपमेव । [ घ ] स्वसजातीयनिष्ठमेदप्रति
योगितानवच्छेदकैकत्वम् । यथा संपन्नो वीहिरित्यादौ त्रीयाविगतमे कत्वं
सुबर्थ: ( ग० व्यु० का० १ पृ० २ ) । तथा च स्वप्रकृत्यर्थस जातीयः
स्वसमभिव्याहृत पदार्थ
संसर्गित्वविशिष्टश्च यः तनिष्ठभेदप्रतियोगितानबच्छे-
दकैकत्वमिति समुदितार्थः । साजात्यं च स्वसमभिव्याहृतपदार्थसंसर्गित्व-
विशिष्टप्रकृत्यर्थताबच्छेदकरूपेण बोध्यम् (ग० न्यु० का ० १ १० २ ) ।
स्वसजातीयेत्यत्र स्वं ब्रह्मादिनिष्ठमेकत्वमिति बङ्गदेशीया आहुः । परे तु
स्वम् एकवचनप्रकृत्यर्थः । स्वसममिव्याहृतेत्यत्र स्वं तु एकवचन मित्याहुः ।
वयं तु उभयस्वपदाभ्यामेकवचनमेव ब्राह्ममिति ब्रूमः । इदं च पारि-
भाषिकं सजातीयद्वितीयरहितत्वरूप मेकत्वमिति बोध्यम् । अत एव पशुना
यजेतेत्यादौ पशुनिष्ठतादृशैकत्वस्य विवक्षितत्वादनेकपशुकरणकयागाभा-
दृष्टसिद्धि: ( ग० व्यु० का० १ पृ० २) । अत्राहुः । पशुना रुद्रं
यजेतेल्यादौ स्वप्रकृत्यर्थसजातीयः ( स्वसममिव्याहृत पदार्थसंसर्गित्वविशिष्ट-
प्रकृत्यर्थतावच्छेदकरूपविशिष्टः ) यागीयपशुरेव । तन्निष्टमेदप्रतियोगि
तानवच्छेदकम् एतत्पशुनिष्ठमेकत्वमेव बोष्यत इति नानेकपशुकरणकया-
गाददृष्टसिद्धिः इति । संपन्नो व्रीहिरित्यत्र लक्षणसमन्वयस्त्वित्थम् । स्वं
ब्रीहिपदोत्तरमेकवचनम् सुप्रत्ययः । स्वस्य समभिब्याहृतं संपन्नः इति
पदम् । तदर्थप्रतियोगिकसंसर्गित्वविशिष्टं प्रकृत्यर्थतावच्छेदकं व्रीहित्वम् ।
एतादृशरूपेण स्वसजातीय एतद्रीहिरेव । तबिष्ठो मेदोम्यनिष्टकस्ववद्भेद
एव ( न त्वेतद्ब्रीहिनिष्टैकत्ववेदः) । तत्प्रतियोगिता नवच्छेदकम् एतद्रीहि
गतमेकत्वं भवति इति ।