This page has not been fully proofread.

न्यायकोचर ।
 
एक: [क] सजातीयनिष्ठमेदाप्रतियोगी । यथा अत्रायमेको मुक्त इत्या-
दावेकपदार्थः । अत्र एतद्देशाधिकरणकभोजनकर्तृनिष्ठभेदाप्रतियोगी
मुझे इत्याकारकबोधः ( ग० श० पृ० १२४ ) । [ख ] केवलः ।
कैवल्यं च द्वितीयरहितत्वम् । एवं च तत्तत्क्रियाकर्तृत्वादिविशिष्टसजातीय-
राहित्यम् । यथा अयमेकोत्र भुत इत्यादाविति शाब्दिका आहुः । अत्र
एतद्देशाधिकरणकभोजनकर्तृसजातीयरहितो मुझे इति बोधः । द्वितीय-
शब्दध सजातीये सहाये रूढः ( ल० म० ) । अन्न गदाधरः कैवल्यं
च सजातीयद्वितीयरहितत्वम् इत्याह ।
 
एककार्यकारित्वम् –एककार्यत्वबदस्यार्थोनुसंधेयः ।
एककार्यत्वम् – (संगतिः ) १ एककार्यानुकूलत्वम् ( म० प्र० पृ० १५ ) ।
अत्रायें एक कार्ये ययोः कारणयोः तयोर्भावः इति व्युत्पत्तिः (जग० ) ।
बहुव्रीहेरनन्तरं त्वप्रत्ययः । यथा गुणागुणमनासङ्गमेककार्यमनन्तरम् ।
एतत्तु ब्रह्मणो वृत्तमाहरेकपदं द्वयम् ॥ ( भा० ब० अ० २१२ )
( वाच० ) । इदं तु कार्येक्यमित्यप्युच्यते । २ एकस्य ( कारणस्य )
कार्यता ( प्रयोज्यता कार्ययोः ) । सा च जन्यता जन्यज्ञानविषयता च
( भवा० ) (वै० सा० द० ) । यथा ईश्वरशक्त्योरनुमानाजन्यत्वेपि
तज्जन्यज्ञान विषयत्व लक्षणैककार्यत्वसंगत्या ईश्वरवादानन्तरं मीमांसकेन
शक्तिराशङ्किता । नैयायिकेन च ईश्वरसियनन्तरं शक्ति निरस्य परम-
प्रयोजनं त्वनुमानस्यापवर्गः इत्यनेन ईश्वरसिद्व्यपवर्गयोरनुमानजन्यत्व-
लक्षणैककार्यत्वं संगतिः सूचिता ( भवा० ) ।
 
एकत्र द्वयम् इति रीत्या जायमानं ज्ञानम् - उभयप्रकारतानिरूपितैक-
विशेष्यताशालिज्ञानम् ( ल० व० पृ० ९ ) । यथा सुन्दरः पुरुषो दण्डी
इत्याकारकं ज्ञानम् । अत्र सौन्दर्यदण्डयोः पुरुषे युगपद्विशेषणत्वेनान्वय-
विवक्षायां ज्ञानं तादृशं भवति । सौन्दर्यविशिष्ठपुरुषे दण्डमात्रस्य दण्ड-
विशिष्टपुरुषे वा सौन्दर्यमात्रस्य विशेषणत्वेनान्वयविबक्षायां तु विशिष्ठे
वैशियम् इति पैल्या ज्ञानं जायते इति ज्ञेयम् ।
२४ म्या० को●
 
-