2023-02-20 00:54:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
( जै० न्या० अ० ९ पा० १ अधि० १ ) । २ तारायः सिद्धि-
विशेष ऊह इति तन्त्रवेत्तार आदु: ( बाच० ) ।
ऋक् – [क] पादेनार्थेन चोपेता वृत्तबद्धा मम्रा ऋचः ( जै० न्या०
अ० २ पा० १ अधि० १२ ) । [ ख ] तेषामृग्यत्रार्थवशेन पाद-
व्यवस्था । अस्यार्थः यत्र वाक्ये अर्धवशेन छन्दोविशेषवशेन पाद-
व्यवस्था सा ऋक् ( अ० २ पा० १ अधि० १० सू० ३५ ) ।
ऋणम् [क] पश्चाच्छोष्यत्वेनाङ्गीकृत्य गृहीतं द्रव्यम् ( श० प्र०
पृ० ८६ ) । यथा ऋणानि पित्रादिभिः कृतानि अस्माभिर्देयानि । अथ
मत्कृतानि ऋणानि इत्यादौ ( भा० ) ( वाच० ) । [ख] उत्तमर्णाय
दातव्यत्वेन स्वीकृतं धनम् । [ग] शाब्दिकास्नु सजातीयद्रव्यान्तर-
दान मङ्गीकृत्य परदत्तपरकीयद्रव्यादानम् । तज्जन्योधमर्णनिष्ठः परिशोधन-
नाश्यः अदृष्टविशेषो वा इत्याहुः ( ल० म० ) ।
ऋतम् – ऋतशब्दः कर्मवचनः । ऋतं पिबन्तौ इति वचनात् ( सर्व ०
सं० पृ० १०० रामानु० ) ।
-
ऋतुः - [क] सौरं मासद्वयं राम ऋतुरित्यभिधीयते (पु० चि० पृ० ८ ) 1
[ख] द्वंद्वमुपददाति तस्माद्वं ऋतवः (अग्निचयने पु० चि० पृ० ७) ।
[ग] ऋतौ चन्द्रनिमित्तत्वं ऋतूनयो विदधज्जायते पुनरित्यतः मन्त्र-
वर्णाप्रतीयते । पुनः पुनर्यो जायते स एव विदधतून् । चन्द्रः पुनः
पुनर्जन्यः तस्माच्चन्द्रवशाहतुः ( त्रिका० म० पु० चि० पृ० ८) ।
ऋते – अभावः । यथा ऋते कृष्णान्नोत्पद्यते सुखमित्यादौ । अत्र प्रति-
योगित्वं पञ्चम्यर्थः । कृष्णशब्दस्तद्भक्तिलाक्षणिकः । एवं च कृष्णभक्ति-
प्रतियोगिकाभावप्रयोज्य: सुखकर्तृकोत्पत्त्यभावः इति बोध: ( ल०म० ) ।
यथा वा भ्रातृको हरेत्सर्वे दुहितॄणां सुतादृते ( याज्ञ० २ । १३९ )
इत्यादौ ।
ऋत्विक् – ऋत्विग्यज्ञकदुच्यते । यः पाकयज्ञादिकं वृतः करोति स ऋत्विक्
( मिता० १/३५) ।