This page has not been fully proofread.

न्यायकोशः ।
 
१८३
 
उरुक:- १ उलूकनामा
 
पक्षिविशेषः । २ मेदखिनी वपा । उरु वि-
स्तीर्णमूको मेदो यत्र इत्यवयवार्थः ( जै० न्या० अ० ९ पा० ४
अधिo 8 ) ।
 
-
 
उष्णत्वम् – स्पर्शनिष्ठो जातिविशेषः । यथा स्पर्श उष्णस्तेजसस्तु ( मा०प०
को ४२ ) इत्यादौ । उष्णस्पर्शवत्तेजः ( मु० १ पृ० ७७ ) इत्यादौ
च। सूतके मृतके चैव न स्नायादुष्णवारिणा इत्यादौ उष्णशब्दस्य
उष्णस्पर्शवदित्यर्थो बोघ्यः ।
 
ऊ.
 
ऊर्ध्वा – (दिक् ) अदृष्टवदात्मसंयोगजन्याग्निक्रिया जन्यसंयोगाश्रयो दिक्
( बै० उ० २।२।१० ) । यथा ऊर्ध्व गत इत्यादौ । एवं च इन्द्राग्नि -
यमनिऋतिवरुणवायुसोमेशान नागब्रह्माधिष्टानोपलक्षिता दश दिश इति
व्यपदेशान्तरम् प्राच्यादिव्यपदेशात् (वै० उ० २।२।१० ) ।
 
--
 
ऊष्मा -१ उष्णस्पर्श: ( राम० १५० ७० ) । यथा चक्षुरूष्मादिसंततेः
(मु० १५० ६८) इत्यादी । २ तेजोद्रव्यस्य सूक्ष्मावयवः ( भा० )
( वाच० ) । यथा यथा मेघूम उदयते एवमेषामूष्मोदयते ( शत०
मा० १/६/२/१२/५ ) इत्यादौ । ३ श ष स ह एते वर्णा ऊष्माण इति
शाब्दिका आहुः ( वाच० ) ।
 
ऊहः – १ तर्कः । स च [ क ] परीक्षणम् । [ ख ] अनुमानम् । यथा
ऊह: ( जै० सू० ११२/५२) इत्यादी । न पिता वर्धते न माता
इत्युक्ते अन्ये वर्धन्त इति गम्यते ( शाबरभा० १९।२।५२ ) । [ ग ]
अध्याहारः । [ घ ] कल्पनम् । अन्वययोग्यविभक्तयादिकल्पनमित्यर्थः ।
यथा पार्वणे सौम्यास इति बहुवचनसमन्वितमपि एकोद्दिष्टे अनन्वित-
त्वात् सौम्यः इत्येकबचनान्ततया वरय्यते । यथा वा अग्नये जुष्टं निर्वपामि
इत्यस्य सौर्ये चरौ सूर्याय जुष्टं निर्वपामि इत्येवं पदान्तरप्रक्षेप ऊहः
( जै० न्या० अ० २ पा० १ अधि० ९) । [ङ ] प्राकृतस्थान-
पतितपदार्थान्तरकार्यतः । ऊहः प्रयोगो विकृत ऊद्यमानतयोदितः ॥