2023-02-20 00:54:37 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
मिसंधान
पूर्वकस्वत्वप्रागभावासमानकालीनस्वत्वाविषयकेच्छेति व्यवहारज्ञा
आहुः ( वाच० ) । स्वत्वध्वंसमात्रजन कस्त्याग इति मैथिला आहुः ।
यथा धनस्योपेक्षा इत्यादौ ( श० प्र० श्लो० ७० टी० पृ० ८५)।
०
१८२
उपोद्धातः—( संगतिः ) [ क ] प्रकृतोपपादकत्वम् ( दि० २ ) । [ ख ]
प्रकृतोपसाधकत्वम् । यथा परामर्शजन्यज्ञानत्वरूपेनुमितिलक्षणे वक्तव्ये
विशिष्टपरामर्शस्यानुमितिहेतुत्वमुपोद्धातसंगत्या व्यवस्थाप्यते ( राम० २
पृ० १३४ ) । यथा वा प्रमाकरणरूपे प्रमाणे निरूपणीये सत्युपो-
द्वातसंगत्या करणनिरूपणम् ( वाक्य० १५० १० ) । [ग] चिन्तां
प्रकृतसिद्ध्यर्थामुपोद्धातं विदुर्बुधाः ( सर्व० सं० पृ० २६७ जैमि० )
( भवा ० ) ( जग ० ) । तदर्थश्च प्रकृतसिद्ध्यनुकूल चिन्ताकालाबच्छेदेन
प्रकृतानुकूलत्वम् । चिन्ता च वक्तुर्माया । अत्रानुकूलत्वं च
कचिद्घटकत्वम् कचिज्ज्ञापकत्चम् । तत्र घटकलं यथा व्यातिविशिष्टपक्ष-
धर्मताज्ञानजन्यज्ञानमित्यत्राज्ञातव्याप्तिकस्य व्याप्तिपदवाच्यत्वेन ज्ञाने का
व्याप्तिः इत्याकारिकायां जिज्ञासायां व्याप्तिनिरूपणम् । ज्ञापकत्वं यथा
विशिष्टज्ञानस्यानुमितिहेतुत्वे किं ज्ञापकम् इत्याकायां परामर्शस्यानुमिति-
हेतुत्वव्यवस्थापनम् ( भवा० ) । [घ ] निर्दिष्टोपपादकत्वम् ( जग० ) ।
[ ङ ] शाब्दिकास्तु प्रकृतसिद्ध्यनुकूलचिन्ताका लावच्छिन्नप्रकृतानुकूल-
त्वम् इत्याहुः (वै० सा० द० ) । अनुकूलत्वं चात्र घटकत्वज्ञापकत्वा-
दिरूपं यथायथं ग्राह्यम् । तत्रावच्छेदकांशः चिन्ताकालपर्यन्तः स्वरूप-
सन् इतरांशश्च ज्ञातः सन्नुपयोगी भवति इति ज्ञेयम् ( वै० सा० ८० ) ।
उभयत्वम् -[क] उभयव्यवहार विषयतावच्छेदको धर्मः ( ग० सिद्धा० ) ।
यथा घटपटोमयमित्यादौ घटपटोभयपर्याप्तमुभयत्वम् । [ ख ] अपेक्षा-
बुद्धि विशेषविषयत्वमिति केचिदाहुः । अयं च धर्मो व्यासज्यवृत्तिर्भवतीति
विज्ञेयम् । एवं बहुत्वादयोपि धर्माः स्वयमूह्याः ।
उमामाहेश्वरी – ( तिथि: ) अष्टमी नवमीविद्धा नवमी चाष्टमीयुता ।
अर्धनारीश्वरप्राया उमामाहेश्वरी तिथिः ॥ ( पु० चि० पृ० १०६ ) ।