2023-02-20 00:54:36 by ambuda-bot
This page has not been fully proofread.
न्यायकोशः ।
१८१
याधायकत्वेन संदिग्धोपाधिः । यथा मित्रातनयत्वेन श्यामत्वे साध्ये शाका-
द्याहारपरिणतिजन्यत्वम् (चि० २ पृ० २९) ( म० प्र० २ पृ०३१ ) ।
अत्र कार्यकारणभावादीनां व्याप्तिग्राहकाणामभावात् संदेहः इति । प्रथ-
मत उपाधिर्द्विविधः निश्चितः शक्तिश्चेति ( ता० २० लो० १५)।
उपाध्यायः - एकदेशमुपाघ्यायः । अस्यार्थः वेदस्यैकदेशं मन्त्रब्राह्मणयोरेकम्
अङ्गानि वा योध्यापयति स उपाध्याय: ( मिताक्षरा अ० १ । ३५ ) ।
-
उपाय: - [ क ] साक्षात् परंपरया वा यत्किंचित्कार्यजनने समर्थः ।
उपायो द्विविधः । लौकिक: अलौकिकश्च । तत्र घटादिकं प्रति दण्डादि-
किकोपायः । स्वर्ग प्रति यागादिरलौकिकोपायः । नीतिशास्त्रज्ञास्तु
साम दानम् मेद: दण्डश्चेत्येते चत्वार उपाया इत्याहुः । [ ख ]
साधकस्य शुद्धिहेतुरुपाय: । स च वासचर्यादि भेदात्पञ्चविधः । तदप्याह
वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । प्रपत्तिश्चेति लाभानामुपायाः
पञ्च निश्चिताः ॥ ( सर्व० सं० पृ० १६३ नकुली० ) ।
उपालम्भः - १ [ क ] परपक्षदूषणम् ( गौ० १० ११११४१ ) ।
[ ख ] प्रतिषेधः (वात्स्या० १११४१ ) । यथा प्रमाणतर्कसाधनो-
पालम्भः ( गौ० १।२।१ ) इत्यादौ । २ स्पर्श इति वैष्णवयाज्ञिका
आडुः । ३ हिंसेति स्मार्तयाज्ञिकाः । ४ अहितेच्छेति काव्यज्ञा वदन्ति ।
-
उपासना – १ मुक्तिप्रयोजकविद्या ( कु० १) । २ आराधनबदस्यार्थोनु-
संधेयः ( श० प्र० पृ० ९५ ) । ३ समान प्रत्ययप्रवाहकरणमुपासन-
मिति मायावादिन आहुः ( शा० भा० ) । अभिगमनमुपादानमिज्या
स्वाध्यायो योग इति पञ्चविधमुपासनं श्रीपञ्चरात्रेमिहितम् ( सर्व० सं०
पृ० ११७ रामानु० ) ।
p
उपेक्षा - १ सुखदुःखोभयासाघनत्वज्ञानम् । यथा तृणं सुखदुःखासाधनम्
इति ज्ञानम् ( सि० च० १ पृ० २१) । २ उभयाप्रकारकं ज्ञानम्
( प० च० ) । ३ भावनाविशेष इति योगशास्त्रविदः । ४ परस्वस्थान-