This page has not been fully proofread.

Peo
 
न्यायकोशः ।
 
भवति च साधनस्य वः अव्यापकम् । यत्र यत्र वहिस्तत्रान्द्रेन्धनम् इति
नियमासत्त्वात् । तप्तायः पिण्डे वह्निसत्वेण्यार्देन्धनाभावादिति ( त०
कौ० २ पृ० १५ ) । [च ] यदभावेन यद्वदन्यत्वेन वा साधनवति
साध्याभाव उन्नीयते स उपाधिरिति नव्या वदन्ति ( दि० पृ० २१७ ) ।
[छ ] अन्ये तु यद्व्यावृत्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र
हेतावुपाधिरित्याहुः ( चि० २ पृ० २८ ) ( दीषि० २ पृ० १०२ ) ।
स च धर्मः यस्याभावात् पक्षे साध्यसाधनसंबन्धाभावः । यथा आर्द्रेन्ध-
नवत्त्वम् । व्यावर्तते हि तव्यावृत्या घूमत्रत्त्वमयोगोलके । एवं भावत्व-
व्यावृत्त्या ध्वंसे जन्यत्वानित्यत्वयोः संबन्धो निवर्तमान पक्षधर्मताबला-
दनित्यत्वाभावमादाय सिध्यति । यथा वा वायाबुद्भूतरूपवत्वं निवर्तमानं
बहिर्द्रव्यत्वे सति प्रत्यक्षत्वं निवर्तयत् प्रत्यक्षत्वाभावमादाय सिध्यति
इत्यादि ( चि० २ पृ० २८ ) । [ ज ] अव्यातसाधनो यः साध्य-
समव्याप्तिरुच्यते स उपाधि: ( सर्व० सं० पृ० ११ बौ० ) ।
उपाधिश्चतुर्विधः । केवलसाध्यव्यापक पक्षधर्मावच्छिन्नसाध्यव्यापकः
साधनावच्छिन्नसाध्यव्यापकः उदासीनधर्मावच्छिन्नसाध्यव्यापकश्चेति ।
तत्राद्यः घूमसाध्यकवदिहेतुकस्थल आर्द्रेन्धनसंयोग । द्वितीयः बायुः
प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्र बहिर्दव्यत्वा वच्छिन्न प्रत्यक्षत्वव्यापक-
मुद्भूतरूपवस्वमुपाधिः । तृतीयः ध्वंसो विनाशी जन्यत्वादित्यत्र
जन्यत्वावच्छिन्न विनाशित्वव्यापकं भावत्वम् । स श्यामो मित्रातनयत्वादि-
व्यत्र शाकपाकजत्वं वा । चतुर्थस्तु प्रागभावो विनाशी प्रमेयत्वादित्यत्र
जन्यत्वावच्छिन्नविनाशित्वव्यापकं भावत्वम् ( त० दी० २ १० २६ ) ।
घटरूपं प्रत्यक्षं प्रमेयत्वादित्यादादुद्भूतरूपं वा उपाधि: ( म०प्र० २
पृ० ३० ) ( न्या० म० २ पृ० २३ ) । पुनरप्युपाधिर्द्विविधः ।
निश्चितः संदिग्धश्च । तत्र साध्यव्यापकत्वेन साधनाव्यापकत्वेन च
निश्चितो व्यभिचारनिश्चयाधायकत्वेन निश्चितोपाधिः । यथा वहिमश्वेन
धूमबत्त्वे साध्य आर्द्रेन्धनप्रभववह्निमत्त्वम् । यत्र साधनाव्यापकत्वसंदेहः
साध्यव्यापकत्वसंशयो वा तदुभयसंदेहो वा तत्र हेती साभ्यव्यभिचारसंश-