This page has not been fully proofread.

न्यायकोशः ।
 
१७९
 
धिकरणनिष्ठा यावन्तो धर्मा आर्द्रेन्धनत्वावच्छिन्नसमानाधिकरणा भवन्ति ।
अतस्तद्वदार्जेन्धनमुपाधि: ( न्या० म० २ पृ० २३ ) । यथा वा
( २ ) वायुः प्रत्यक्षः प्रत्यक्षस्पर्शाश्रयत्वादित्यत्रोद्भूतरूपवत्त्वमुपाधिः ।
भवति हि उद्भूतरूपत्वावच्छिन्नानधिकरणं यत् प्रत्यक्षस्पर्शाश्रयत्वा-
वच्छिन्नम् वायुः तनिष्ठो धर्मः बहिर्द्रव्यत्वम् तदवच्छिन्नं साध्यम्
प्रत्यक्षत्वम् । तदधिकरणं यत् घटपटाद्येव तन्निष्ठा यावन्तो धर्मा
उद्भूतरूपत्वावच्छिन्न समानाधिकरणा भवन्ति । अत उद्भूतरूपबख-
मुपाधि: ( न्या० म० २ पृ० २३ ) । यथा वा ( ३ ) स श्यामो
मित्रातनयत्वादित्यत्र शाकपाकजत्वमुपाधिः । भवति हि शाकपाक-
जत्वत्वावच्छिन्नानधिकरणं यन्मित्रातनयत्ववत् अन्यः अश्यामो मित्रा-
तनयः तन्निष्ठं यत् मित्रातनयत्वम् तदवच्छिन्नं श्यामत्वम् । तदधिकरणं
यत् श्यामो मित्रातनयः तन्निष्ठा यावन्तो धर्मा: शाकपाकजत्वत्वा-
वच्छिन्नसमानाधिकरणा भवन्ति । अतस्तद्वच्छाकपाकजत्वमुपाधिः ।
( न्या० म० २ पृ० २३ ) । यथा वा ( ४ ) घटरूपं प्रत्यक्षं प्रमेयत्वा-
दित्यादौ उद्भूतरूपमुपाधिः । भवति हि उद्भूतरूपत्वावच्छिन्नानधिकरणं
यत् प्रमेयत्ववत् चक्षुरादि तनिष्ठो पत्किंचिद्धर्म: बहिर्द्रव्यत्वम् उदासीन-
धर्म: तदबच्छिन्नं प्रत्यक्षत्वम् तदधिकरणं गत् घटपटादि तनिष्ठा
यावन्तो धर्मा उद्भूतरूपत्वावच्छिन्न समानाधिकरणा भवन्ति । अत
उद्भूतरूपमुपाधिः ( म० प्र० २ पृ० २९ ३० ) । एवं च वक्ष्य-
माणचतुर्विधविभागविभक्तस्योपाधिचतुष्टयस्य यथाक्रममुदाहरणचतुष्टय-
मेतदिति विज्ञेयम् । [ ढ ] साध्यव्यापकत्वे सति साधनाव्यापक उपा-
धिरित्युदयनाचार्या : ( न्या० म० २ पृ० २१ ) ( त० कौ० २
पृ० १५ ) ( त० सं० ) ( दीजि० २ पृ० १०५ ) । यो ययापकत्वे
सति यदव्यापकः स तत्रोपाधिरिति निर्गलितोर्थ: (दीवि० २ पृ० ९२ ) ।
यस्य यद्धर्मावच्छिन्नसाध्यव्यापकत्वं तद्धर्मावच्छिन्नसाधनाध्यापकत्वं च स
तत्साभ्यकतद्धेतावुपाधिरित्यर्थः । भवति च तत् आर्द्रेन्धनम् साध्यस्य
भूमस्य व्यापकम् । यत्र यत्र घूमस्तत्रार्देन्धनम् इति नियमसत्वात् ।