This page has not been fully proofread.

अथ ग्रन्थकृदुद्देशो नाम प्रथम उपोद्धातः ।
 
प्राचीनार्वाचीनन्याय- तर्कग्रन्थालोडनाकलनाभ्यां प्रसिद्धतादृशप्रन्थकता-
मित्थं पूर्वापरीभावक्रमं प्रतीमः – ( १ ) पूर्व महर्षिर्गोतम आसीत् ( २ )
ततो महर्षिः कणादः ( ३ ) ततो महर्षिर्षात्स्यायन: ( ४ ) ततः प्रशस्त-
पादाचार्यः (५) तत उद्योतकराचार्यः ( ६ ) ततो वाचस्पतिमिश्रः
(७ ) ततः शिवादित्यमिश्र : ( ब्योमशिवाचार्यः ) ( ८) तत उदयना-
चार्य: ( ९ ) ततः श्रीधराचार्य : ( १० ) सतो बळमाचार्य: ( ११)
ततो गशोपाध्यायः ( १२ ) ततो वर्धमानोपाध्यायः ( १३ ) ततो
बासुदेव भट्टाचार्यसार्वभौमः ( १४ ) जयदेवमिश्रश्च ( पक्षधरमिश्रः )
( १५ ) ततो रघुनाथतार्किकशिरोमणिः ( १६ ) ततो मथुरानाथतर्क-
बागीश: ( १७ ) ततः कणादापरनामा रघुदेव: ( १८ ) ततः शंकर-
मिश्रः ( १९ ) ततः प्रगल्भः (२०) ततो भवानन्दः ( २१ ) ततो
जगदीशः ( २२ ) ततो गदाधरचक्रवर्ती ( २३ ) भगीरथठकुरा
( २४ ) ततो रुचिदत्तः ( भक्कुनामा ) (२५) ततः केशवमिश्रः (२६)
ततो वरदराजः ( २७ ) ततः पद्मनाभः (२८) ततो जानकीनाथः
( २९ ) ततो रामभद्रः ( ३० ) विश्वनाथन्यायपञ्चाननश्च (३१ ) ततो
रुद्रभट्टाचार्यः ( ३२ ) असंभव इत्यलं विस्तरेण ।
 
अथ ग्रन्थकृञ्चरितं नाम द्वितीय उपोद्धातः ।
 
इदानी ग्रन्थकाराणां क्रमेण जम्मस्थितिकाढचरितं निरूप्यते--
तत्र (१) महर्षिर्गौतम आत्रेयः । स च न्यायदर्शनस्य कर्ता । न्यायदर्श-
-
 
१ अत्र प्रसनतः षड्दर्शनानां सूत्राणां कमः सर्वप्रन्याककलात्कम्यते – 'पूर्व बादरा-
यणीयं ब्रह्ममीमांसादर्शनं संबभूव ततो जैमिनीयं भमैमीमांखादर्शनम् ततो गोतमं
न्यायदर्शनम् ततः काणादं वैशेषिकदर्शनम् ततः कापिकं खांख्यदर्शनम् ततः
बात योगदर्शनम्' इति कर्म वयं प्रतीमः । केवण सूत्रकाराणां समाव