This page has not been fully proofread.

न्यायकोवः ।
 
१७७
 
जातिरूपाः । सामान्यत्वादयस्तु तद्भिन्नाः । जातिभिन्नो धर्मोपि द्विविधः
सखण्डोपाधिः अखण्डोपाधिश्चेति । तत्राद्यः आकाशत्वादिः ( सि० च०
पृ० ३ ) । द्वितीयः प्रमेयत्वकुण्डलित्वप्रतियोगित्वादिः ( त० कौ०
पृ० २० ) । ३ वृत्तिमत् । यथा उपधेयसंकरेप्युपाभ्यसंकरः ( चि० २
पृ० ८७ ) इत्यादौ धर्ममात्रमुपाधिः । यथा वा जन्यमाञं क्रियामात्रं
वा कालोपाधिरित्यादौ । ४ स्वरूपम् । ५ मायावादिनस्तु स्वसामीप्या-
दिना अन्यस्मिन् स्वधर्मारोपसाधनं विशेषण विशेषः । यथा उपाधिमेदेप्ये-
कस्य नानायोग आकाशस्येव बटादिना । गतिश्रुतिरप्युपाधियोगादाकाशवत्
( सां० सू० ) उपाधिना क्रियते भिन्नरूपः (श्रुतिः ) कार्योपाधिरयं
जीव: कारणोपाघिरीश्वरः इत्यादावुपाधिः इत्याहुः ( वाच० ) ।
६ शक्तिरिच्छा चेति वेदान्तिनः । ७ हेत्वाभासविशेषप्रयोजकीभूतोर्थः ।
[ क ] यद्व्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं सः । उदय-
नाचार्यमते उपाधिपदं योगरूढम् । अत्र व्युत्पत्तिः । उप समीपवर्तिनि
आदधाति संक्रामयति स्वीयं धर्ममित्युपाधिः इति । यद्धर्मबोधक-
शब्दसमभिव्याहारेण चोपाधिपदं प्रयुज्यने तद्धर्मसंक्रामकत्वं तद्बोधयति ।
यथा स्फटिकलोहिये जपाकुसुमनुपाधिरित्यत्र लाँहित्यसंक्रामकत्वम् ।
प्रयुज्यते च शास्त्रं व्याप्यत्वबोधक शब्दसमभिव्याहारेण तत् अत्र साधने
असावुपाधिरिति । अतो व्याप्तिसंक्रामकत्वलाभ: (दीधि ० २ पृ० ९६)।
इन्धं च धूमवान्वद्वेरित्यादौ धूमसामग्र्यादिकमुपाधिः । स्फटिक लौहित्ये
जपाकुसुममिव घूमसामग्र्यादे: स्वसमवहितवहौ स्वनिष्ठभूमव्यायाधायक-
त्वात् ( म० प्र० २ पृ० २८ ) । [ ख ] यः साधनव्यभिचारी
साभ्यव्यभिचारोन्नायकः सः (चि० २ पृ० २६) । साभ्यव्यभिचारो-
नायकत्वं च साध्यव्यभिचारानुमापकत्वम् । उपाधेदूषकताबीजं तु
स्वव्यभिचारेण साधने साध्य व्यभिचारोनायकत्वम् । तथाहि घूमवान्वद्दे-
रित्यत्र आर्द्रेन्धनमुपाधिरित्युपन्यासानन्तरं वह्निर्धूमव्यभिचारी धूमव्यापका-
न्धनव्यभिचारित्वात् यो ययापकव्यभिचारी स तवभिचारी यथा
द्रष्यत्व व्यापकगुणवत्त्वष्यभिचारि प्रमेयत्वं द्रव्यत्वस्यापि व्यमिचारि इति
२३ म्या को●