This page has not been fully proofread.

नामत्वात् नाम्नामेव समासविधानात्प्रादेः समास उपपद्यते ( स० प्र०
स० १ १० ७० ) इत्याहुः । वैयाकरणास्तु सर्वेषां द्योतकत्वमेवाहुः ।
२ उत्पात इति काव्यज्ञाः ।
 
उपसर्जनम् – १ गौणम् । २ अप्रधानम् । यथा धनवान्देवदत्त इत्यादौ
विशेषणीभूतं धनमुपसर्जनम् । अत्रोपसर्जनत्वं च वृत्तिजन्यबोधीय-
प्रकारताश्रयत्वम् । वृत्तिशब्देनात्र वैयाकरणसंमताः कृप्तद्वितसमासैक-
शेषसनाद्यन्ताः पञ्च वृत्तयो गृह्यन्ते । ३ शाब्दिकास्तु विप्रहवाक्ये यनि-
यतविमक्तिकं तदुपसर्जनसंज्ञम् स्वार्थविशिष्टार्यान्तरबोधकमुपसर्जनम् इति
च बदन्ति ।
 
-
 
उपस्थितिः - १ बुद्धिषदस्यार्थोनुसंधेयः । २ स्मृतिरित्याधुनिका वदन्ति ।
उपहारः – नियमः । स च षडङ्गः । तदुक्तं सूत्रकारेण हसितगीतनृत्य-
ढुक्कारनमस्कारजप्यषडङ्गोपहारेणोपतिष्ठेतेति ( सर्व० सं० पृ० १६९
 
नकुली ० ) ।
उपहितत्वम् – १
 
उपधायकत्वबदस्यार्थोनुसंधेयः । २ मायावादिनस्तु
उपाघिसंगतत्वम् । उपाध्युपलक्षितत्वं वोपहितत्वम् । यथा अन्तःकरणोप-
हितं चैतन्यं जीवः अज्ञानोपहितं चैतन्यमीश्वरः इत्यादावित्याहुः (वाच० ) ।
उपहितिः - अङ्गारेषु कपालस्थापनम् ( जै० न्या० मा० १० १
 
-
 
अधि० ११ ) ।
 
उपाकरणम् स्तोत्रं प्रति प्रेरणम् । यथा उपावर्तव्यमिति मन्त्रबर्हिन्यां
स्तोत्रमुपाकरोति ( जै० न्या० मा० १०४ अघि० २ ) ।
 
उपादानत्वम् - ( कारणत्वम् ) मायावादिमते [१] जगदभ्यासाधिष्ठान-
त्वम् । यथा ब्रह्मणो जगदुपादानत्वम् । [२] जगदाकारेण परिणा-
मित्वम् । यथा मायाया जगदुपादानत्वम् ( वे० प० पृ० ६५ ) ।
उपादानम् - १ समवायिकारणम् । यथा उपादानस्य चाभ्यक्षं प्रवृत्तौ
जनकं भवेत् ( भा० १० हो० १५३) इत्यादौ इति प्राचीननैया-
यिकाः । २ अधिष्ठानमात्रम् । यथा यागादेर्हविः शब्दस्य मृदङ्गादिः
प्राणसंचारादेव प्राणवहनाङयादिरुपादानमिति नवीननेयायिकाः (दि०
 
mga pagka