This page has not been fully proofread.

यथा उपनयलक्षणे उदाहरणापेक्षस्तथेत्युपसंहारः ( गौ० ११ १२ १३८)
इस्यत्रोपसंहारः । ३ निश्चयः ( दीधि ० २ ) । ४ विस्तरेण निरूपितस्य
पदार्थस्य सारांशकथनेन तन्निरूपणसमापनम् । यथा तदेतत्रिविधकारण-
मध्ये यदसाधारणं कारणं तदेव करणम् ( त० सं० ) इति करण-
लक्षणस्योपसंहारः ( स० दी० १ पृ० १७ ) । ५ प्रन्यतात्पर्यावधा-
रकलिङ्गविशेषः । यथा उपक्रमोपसंहारौ हेतुस्तात्पर्यनिर्णये इत्यादौ ।
 
६ एकत्र श्रुतार्थस्यान्यत्रान्वयार्थमुपक्षेपः । यथा गुणोपसंहार इत्यादौ ।
७ साकल्येन संबन्धः । यथा सर्वोपसंहारबत्या व्याप्तेदुर्ज्ञानत्वात् इत्यादौ
( वाच० ) । ८ मीमांसकास्तु सामान्यप्राप्तस्य विशेषे नियमनम् इत्याहुः
( लौ० मा० टी० पृ० २३ ) ।
 
....
 
-
 
उपसद: - दीक्षादिवसादूर्ध्व सोमामिषवदिवसापूर्व कर्तव्याः होमाः
( जै० न्या० म० ३ पा० ३ अधि० १३ ) ।
 
उपसर्ग:-१ [क] जन्यबोधविषयीभूतक्रियाविशेष विषयकता त्पर्यग्राहकत्वे
सति प्राद्यन्यतमः । यथा प्रहरति विहरतीत्यादौ प्रादिरुपसर्गः । प्रादय
उपसर्गा द्वाविंशतिधा प्र परा अप सम् अनु अव निस् निर् दुस् दुर
वि आजू नि अघि अपि अति सु उत् अमि प्रति परि उप । [ख]
उपसर्गाः क्रियायोगे ( पा० सू० १९९४/५९ ) इति शाब्दिकाः ।
उपसर्गस्य त्रिधा प्रवृत्तिः धास्वर्थ बाधते कश्चित् कश्चित्तमनुवर्तते । तमेव
विशिनष्टयन्य उपसर्गगतित्रिधा ॥ इति । क्रमेणोदाहरणानि यथा आदते
प्रसूते प्रणमति इत्यादीनि ( वाच० ) । प्रादयो द्योतका इति नैयायिका
वैयाकरणाबाहुः । अत्र द्योतकत्वं च तात्पर्यप्राहकत्वम् (वै० सा० ) ।
अत्रेयं व्यवस्था । उपसर्गाणां मध्ये यत्र यस्योपसर्गस्य किंचिदर्थे शक्तिर्न
प्रामाणिकी तस्य तत्र द्योतकत्वमेव । यथा प्रसूते इत्यादौ । यस्य
शक्तिः प्रामाणिकी तस्य बाचकत्वमेव । यथा उपकुम्भम् इत्यादौ । अन्यथा
तत्राव्ययीभावसमासानुपपत्तेः । तस्य निरर्थकत्वेन निराका कृत्वात् ।
पूर्व वाच्यं भवेद्यस्य सोव्ययीभाष इष्यते इत्यनुशासनात् । अन्ये तु प्रादेख
निरर्थकत्वेपि स्वाद्यन्तमिह नामेष्टम् इत्यनुशासनेन सायन्तत्वेन तस्मापि