This page has not been fully proofread.

१७२
 
· पुरुषादिविषयकः नतु विशिष्टविषयक इत्युच्यते (ग० म्यु० का०
३ पृ० ९२ ) । २ अजहत्स्वार्थलक्षणया अन्यप्राहकम् ( म० प्र० ३
पृ० ३५ ) । यथा अनुमितिकारणीभूताभावप्रतियोगियथार्थज्ञानविषय-
त्वम् ( चि० २ ) इत्यत्रानुमितिपदं परामर्शस्यापि प्राहकम् ( दीधि०
सामा० ) ( ग० २ सामा० पृ० २) । यथा वा साधर्म्यापमानं
वैधर्म्याद्युपस्थापकम् ( म०प्र० ३/३५ ) । यथा वा काकेम्यो दधि
रक्ष्यतामित्यादौ काकपदं दप्युपघातकत्वेन रूपेण काकाकाकोभय-
बोधकम् ( वाच० ) । अत्र उपलक्ष्यते स्वं स्वेतरचानेन इति व्युत्पत्तिः ।
करणे ल्युट् । लक्षणं तु लक्ष्यताबच्छेदकरूपेण स्वस्खेतरबोषकपद-
त्वम् (वाच० ) ।
 
उपलब्धिः - १ बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम् ( गौ० ११ १/१५) ।
२ ज्ञानेन पुरुषस्य यः अतात्त्विकः संबन्धः स इति सांख्या: (मु०
१/२ आत्म० ) । अयं भावः । स्वच्छायां बुद्धौ वर्तमानेन ज्ञानेन
चैतन्यस्य पुरुषस्य मेदामहात् अहं जानामि इति योमिमानविशेषः
सैवोपलब्धिः इति (३० उ० ८।१।१ ) । चेतनोहं करोमि इत्याकारेण
बुयारोपितस्य पुरुषस्य ज्ञानेन सह इदं ज्ञानम् इति प्रतीयमानोतात्विक
संबन्धो यः स उपलब्धिः इति ( दि० ११२ ) ( राम० १।२
पृ० १०५ ) । ३ प्रातिरिति काव्यज्ञा वदन्ति ।
 
उपलब्धिसमः ( जाति: ) [ क ] निर्दिष्डकारणामावेप्युपलम्मादुपख-
ब्धिसम: ( गौ० ५।१।२७ ) । प्रतिकूलतर्कदेशनामासः बाघदेशना-
मासब्वायम् ( गौ० पृ० ५/११२७) । निर्दिष्टप्रयज्ञानन्तरीयकत्वस्या-
नित्यत्वकारणस्याभावेपि वायुनोदनावृक्षशाखाभङ्गजस्य शब्दस्यानिष्पत्य-
मुपलभ्यते । निर्दिष्टस्य साधनस्यामावेपि साध्यधर्मोपलब्ध्या प्रव्यवस्थान-
मुपलब्धिसमः ( वात्स्या० ५१११२७ ) । [ख] बादिना निर्दिष्टस्य
कारणस्य साधनस्यामावेपि साध्यस्योपसम्भात्प्रत्यवस्थानम् । तथा हि
पर्वतो वहिमान्घूमादित्यादिकं बहभवधारणार्थमुच्यते । न च तत्संभवति ।
धूमं विना आलोकादितोपि वहिसिद्धेः । तथा च न तस्य साधकत्वमिति