This page has not been fully proofread.

१७१
 
विषयित्वाविशेषणतया विषयविशेषणतया पदजन्यतावच्छेदकनिष्ठत्वमिति
गुरवः (कृष्ण० श० २०) । [ख] विवक्षितान्वयप्रतियोगितानवच्छेदकं
व्यवच्छेदकम् । यथा काकेन देवदत्तगृहमित्यादौ काको न गृहस्य
देवदत्तान्वयप्रतियोगिताबच्छेदकः । अत्रायं भावः । प्रयोगकाले गृहे
काकासत्त्वेपि यदाकदाचित्काकसमवधानेपि पूर्वोपस्थितकाकस्मरणेन देव-
दत्तगृहं विज्ञायत इति काकस्योपलक्षणत्वमिति बोध्यम् । [ग] यद-
न्विततया ज्ञात एव विशेष्ये तात्पर्यविषयीभूतेतरान्वयचीस्तावच्छेदकं
यत् तद्भिनम् ( चि० १ पृ० ३४ ) । [घ ] अविद्यमानं सत् व्याव-
र्तकम् । यथा जटामिस्तापस इत्यादौ तापसादे: कालान्तरीणजटादिकम्
(ग० व्यु० का० ३ पृ० ९१ ) । यथा वा यदा तु देवदत्तगृह उपरि
भ्रमन्नसन् काकः तदोपलक्षणम् ( ३० उ० ७१२१८ ) । जटाभिरित्य-
त्रातिद्यमानजादेः संबन्धविवक्षया मतुबाधनवकाशात् इत्यंभूतलक्षणे
( पा० सू० ३।३।२१ ) इत्यनेन तृतीया ज्ञेया । अयमाशयः । विशेषणस्य
संबन्धो मतुबादिमिः प्रत्याय्यते । अस्ति इत्यर्ये तदस्यास्यस्मिन्निति
मतुप् (पा० सू० ५/२/९४ ) इत्यनेन विहितानां वर्तमानसंबन्धार्थक-
त्वात् । अतो जटामिस्तापस इत्यादावविद्यमानजटादेः संबन्धविवक्षया
मतुबाधनबकाशात् तृतीया । अत्रायं विशेष । कचित्र विद्यमानमपि
अतद्ध्यावृत्ति – ( तद्भिन्नव्यावृत्ति-)
न्यूनाधिकवृत्तितया न तत्र विशेषण-
मित्युच्यते किंतूपलक्षणम् । यथा विद्यमानापि जटा तापसे उपक्षणम् ।
न तूपलक्ष्यतावच्छेदकशमदमादिवद्विशेषणम् (ग० न्यु० का० ३
पृ० ९२ ) । [ङ ] सदसद्वा समानाधिकरणं व्यावर्तकं विशेषणम्
व्यधिकरणमुपलक्षणमित्युदयनाचार्या : (चि० १ पृ० ३४ ) । [ ६ ]
कचित् विधेयान्तरसमानकालीनमपि विशेषणं तदनन्वयितया तदन्वयि-
न्युपलक्षणमित्युच्यते । यथा रूपवान् रसवानित्यादौ रूपादिकं रसा-
म्वयिनि । साखावान्गोपदवाच्य इत्यादी सामादिकं गवादिपदवाच्ये ।
कचित् धर्मिसंबद्धधर्मान्तरसंबन्धितानवच्छेदकतया धर्मान्तरसंबन्धिन्युप
लक्षणम् । अतः दण्डपुरुषी इत्यादिसमूहालम्बनबोधो दण्डासुपकंक्षित-